कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · णान्ताः

॥ इति ढान्ताः ॥

कौस्तुभेऽश्वगलावर्ते शिवे देवमणिः पुमान् ।शङ्कुकर्णो गर्दभे स्यादुष्ट्रेऽप्यथ समीरणः ॥
4.9.1 · p. 115
अनुष्टुप्
फणिज्जके मारुते स्यादथ नीलीविशल्ययोः ।मधुपर्णी तैलपर्णी श्रीवेष्टे श्वेतचन्दने ॥
4.9.2 · p. 115
अनुष्टुप्
दाक्षायणी भवानी भूरश्विन्याद्याश्च तारकाः ।असंबाधचमूगत्यां संसारे पुरनिर्गमे ॥
4.9.3 · p. 115
अनुष्टुप्
घण्टापथे संसरणमथोद्धरणमुद्धृतौ ।भुक्तोज्झिते निःसरणं तूपाये निर्गमेऽपि च ॥
4.9.4 · p. 115
अनुष्टुप्
पारायणं पारगतावङ्कुशस्य च बन्धने ।कार्त्स्न्येऽप्यथो काम्यदाने निषेधे च प्रवारणम् ॥
4.9.5 · p. 115
अनुष्टुप्
सोपानेऽप्यारोहणं निःसरणं द्वारि निर्गमे ।विदारणं स्यात्समरे द्वैधीभावे विडम्बने ॥
4.9.6 · p. 116
अनुष्टुप्
शब्दशास्त्रे व्याकरणं ज्याटङ्कारे स्फुटीकृतौ ।स्यादस्त्रियां वारवाणं कूर्पासे कवचेऽपि च ॥
4.9.7 · p. 116
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
परायणं क्लीबमिष्टाश्रययोस्तत्परे त्रिषु ।नारायणी रमागौर्यौः शतावर्यां हरौ तु ना ॥
4.9.8 · p. 116
अनुष्टुप्
निरूपणं तु न पुमान् विलोकनविचारयोः ।
4.9.9 · p. 116