कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · चान्ताः

॥ इति घान्ताः ॥

प्रपञ्चो निष्कृतौ स्तोमे रचनायां विपर्यये ।क्रकचः करपत्रे स्यादपि ग्रन्थिलपादपे ॥
3.5.1 · p. 70
अनुष्टुप्
मार्जारेऽपि पिशाचः स्यान्मारीचो याचकद्विजे ।दानवेऽप्यथ नाराचो बाणे जलकरिण्यपि ॥
3.5.2 · p. 70
अनुष्टुप्
वीणा विपञ्ची या चाल्पदण्डा या नवतन्त्रिका ।तयोश्च मणिचं तु स्यादग्रहस्तप्रसूनयोः ॥
3.5.3 · p. 71
अनुष्टुप्
मौक्तिकेऽपि मरीचिस्तु मुनौ ना किरणे द्वयोः ।उदर्चिर्वाच्यलिङ्गः स्यादुत्प्रभे दहने पुमान् ॥
3.5.4 · p. 71
अनुष्टुप्
अवीचिरूर्मिरहिते वाच्यवन्नरके तु ना ।
3.5.5 · p. 71