कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · मान्ताः

॥ इति भान्ताः ॥

द्रुमौ चैद्यसुहृद्वृक्षौ भ्रमौ भ्रान्त्यम्बुनिर्गमौ ।सोमः कुबेरे कर्पूरे लताभेदे निशाकरे ॥
2.23.1 · p. 39
अनुष्टुप्
ग्रामः पल्यां स्वरे वृन्दे त्वयं शब्दादिपूर्वकः ।स्मराभिलाषयोः कामोऽनुज्ञायां काममव्ययम् ॥
2.23.2 · p. 39
अनुष्टुप्
शक्तौ चरणविक्षेपे परिपाट्यामपि क्रमः ।आत्मा यत्नधृतिस्वान्तस्वभावपरमात्मसु ॥
2.23.3 · p. 39
अनुष्टुप्
जीवबुद्धिशरीरेषु रश्मिस्तु प्रग्रहे द्युतौ ।श्यामाकादौ द्रुमे गर्मुत् क्रिमिः स्यात्कीटलाक्षयोः ॥
2.23.4 · p. 39
अनुष्टुप्
ग्रीष्मोष्मबाष्पा उष्माण ऊमो व्योमनि पत्तने ।साम वेदे साम्नि दमो दण्डे चेन्द्रियनिग्रहे ॥
2.23.5 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
गुल्मः स्तम्बे प्लीह्नि घट्टे रोगसैन्यविशेषयोः ।ष्ट्यूमस्यूमौ जले चन्द्रे यमस्तु यमलेऽन्तके ॥
2.23.6 · p. 39
अनुष्टुप्
शरीरसाधनापेक्षनित्यकर्मणि संयमे ।उमा स्यादतसीगौरीहरिद्राकीर्तिकान्तिषु ॥
2.23.7 · p. 39
अनुष्टुप्
सीमसीमे इमे क्षेत्रे कूलमर्यादयोरपि ।ब्राह्मी तु ब्रह्मशक्तिः स्यान्मत्स्याक्षी भारती च सा ॥
2.23.8 · p. 40
अनुष्टुप्
लक्ष्मीः संपद्रमा शोभा जामिः स्वसृकुलस्त्रियोः ।रुमा सुग्रीवभार्यायां सैव स्याल्लवणाकरे ॥
2.23.9 · p. 40
अनुष्टुप्
रुक्मं तु काञ्चने लोहे हेम्नी काञ्चनवेतसे ।सूक्ष्मप्रान्तेषु सूत्रादेः किञ्जल्के नेत्रलोमसु ॥
2.23.10 · p. 40
अनुष्टुप्
चुल्लीरन्ध्रे च पक्ष्म स्याल्लक्ष्म चिह्नवरिष्ठयोः ।धाम जन्मप्रभास्थानप्रभावसुखसद्मसु ॥
2.23.11 · p. 40
अनुष्टुप्
कर्म व्यासे क्रियायां च वर्त्म नेत्रच्छदाध्वनोः ।हेमवेतनयोर्भर्म च्छद्म सद्मनि कैतवे ॥
2.23.12 · p. 40
अनुष्टुप्
तमो राहौ गुणे ध्वान्ते शोके व्योम नभोम्बुनोः ।रामः पशौ जामदग्न्ये हलिराघवयोश्च ना ॥
2.23.13 · p. 40
अनुष्टुप्
सितासितमनोज्ञेषु त्रिषु रामा तु भामिनी ।श्यामा षोडशवर्षा स्त्री त्रिवृता शारिबा निशा ॥
2.23.14 · p. 40
अनुष्टुप्
नीलीप्रियङ्गुवर्णेषु पुंस्ययं तद्वति त्रिषु ।क्षमा क्षोण्यां तितिक्षायां योग्यशक्तहितेषु तु ॥
2.23.15 · p. 40
अनुष्टुप्
त्रिष्वथ क्षेममस्त्री स्यान्मङ्गले लब्धरक्षणे ।पुंस्यामो रुज्यपक्के त्रिष्वामेत्यामन्त्रणेऽव्ययम् ॥
2.23.16 · p. 40
अनुष्टुप्
भीषणे त्रिषु भीष्मः स्याद्रुद्रगाङ्गेययोस्तु ना ।क्षौमं दुकूले वा नाट्टे भीमः शंभौ वृकोदरे ॥
2.23.17 · p. 40
अनुष्टुप्
घोरे त्रिष्वथ धर्मोऽस्त्री पुण्ये साम्यस्वभावयोः ।चापन्यायाध्वराहिंसायज्वाचारयमेषु ना ॥
2.23.18 · p. 41
अनुष्टुप्
हिमः शीते त्रिषु क्लीबे प्रालेये चन्दनेऽपि च ।तोक्मं क्लीबे कर्णमले हरिते तु त्रिलिङ्गकः ॥
2.23.19 · p. 41
अनुष्टुप्
हरिद्यवे ना प्रेमा तु न स्त्रियां स्नेहनर्मणोः ।वामा वध्वां सव्यरम्यप्रतीपेष्वेष वाच्यवत् ॥
2.23.20 · p. 41
अनुष्टुप्
वामी सृगालीबडवारासभीकरभीष्वथ ।क्रमात्संख्याहस्तिबिन्द्वोर्निधिव्यूहान्तराहिषु ॥
2.23.21 · p. 41
अनुष्टुप्
अब्जे भार्ङ्गीश्रियोः पद्मं क्लीबे पुंस्यस्त्रियां स्त्रियाम् ।वर्ष्म न स्त्री शुभाकारे प्रमाणवपुषोरपि ॥
2.23.22 · p. 41
अनुष्टुप्
समा स्त्री वत्सरे साधुसर्वतुल्येषु तु त्रिषु ।ऊर्मिर्द्वयोः स्यादुत्कण्ठा वस्त्रसङ्कोचरेखिका ॥
2.23.23 · p. 41
अनुष्टुप्
तरङ्गश्चाथ नेमिः स्त्री चक्रान्ते भित्तिमूलके ।कूपत्रिकायां ना त्वेष भवेत्तिनिशपादपे ॥
2.23.24 · p. 41
अनुष्टुप्
परमात्मा तपो वेदो ब्रह्म ब्रह्माब्जजे द्विजे ।ऋत्विज्यथ कुजे दैत्ये भौमो ना भूद्भवे त्रिषु ॥
2.23.25 · p. 41
अनुष्टुप्
श्रीमांस्तिलकवृक्षेऽपि धीमान्वाचस्पतावपि ।स्वामी स्कन्देऽप्यथो जाल्मः स्तब्धेऽनालोच्यकारिणि ॥
2.23.26 · p. 41
अनुष्टुप्
निर्बुद्धावपि जिह्मस्तु मन्दे वक्रेऽप्युभौ त्रिषु ।
2.23.27 · p. 41