All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
सङ्कीर्णकाण्डम् · कान्ताः
अवकरको गेहाङ्गे चित्राभ्रे नागवारको गरुडे च ।जलकरकस्तु पयोधौ फलेऽव्ययं नारिकेलस्य ॥
5.1.1 · p. 129
metre not recognised
गोक्षुरकविकङ्गतयोः काल्यां च स्वादुकण्टको ज्ञेयः ।चिलिमिलिका स्यात् तटिति च खद्योते कण्ठभूषायाम् ॥
5.1.2 · p. 129
आर्या
उपकारिकोपकर्त्यां राजगृहे पिष्टभेदे च ।आस्फुरितकं तु हाने स्त्रीणां नखरक्षतान्तरे चापि ॥
5.1.3 · p. 129
उद्गीतिः