कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · शान्ताः

॥ इति वान्ताः ॥

समप्रकाशौ नीकाशौ रक्षोवृक्षौ पलाशिनौ ।निवेशौ शिबिरोद्वाहौ गिरीशौ शंकराद्रिपौ ॥
3.27.1 · p. 108
अनुष्टुप्
आदर्शौ दर्पणष्टीका निदेशः कथनाज्ञयोः ।निर्वेशः सम्मूर्छने स्यात्कर्मभृत्युपभोगयोः ॥
3.27.2 · p. 108
अनुष्टुप्
प्रकाशः किरणे भासि ना तुल्यस्फुटयोस्त्रिषु ।यमे रक्षसि कीनाशः कर्षके कृपणे त्रिषु ॥
3.27.3 · p. 108
अनुष्टुप्
पत्रे पलाशं हरिते राक्षसे किंशुके पुमान् ।निस्त्रिंशोऽसौ त्रिषु क्रूरे मत्स्ये ना कुलिशं पवौ ॥
3.27.4 · p. 108
अनुष्टुप्
अथ त्रिष्वस्वतन्त्रात्मा विवशोऽरिष्टदुष्टधीः ।कर्कशो निर्दयः क्रूरः खरस्पर्शश्च साहसी ॥
3.27.5 · p. 108
अनुष्टुप्
बालिशौ मूर्खपृथुकौ सदृशौ तु समोचितौ ।
3.27.6 · p. 108