All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · सान्ताः
॥ इति षान्ताः ॥
श्रीवासो वृक्षधूपेऽब्जे रभसो वेगहर्षयोः ।नभसः सागरे व्योम्नि विलासो भावलीलयोः ॥
3.29.1 · p. 110
अनुष्टुप्
वाहसोऽग्नावजगरे पर्यासोऽवसरे क्रमे ।सायकक्षेपके द्रोण्यामिष्वासः कार्मुकेऽप्यथ ॥
3.29.2 · p. 110
अनुष्टुप्
आख्ययिकापरिच्छेदेऽप्याश्वासो निर्वृतावथ ।श्रेयसी गजपिप्पल्यामभयारास्नयोरपि ॥
3.29.3 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 यि (wrong syllable)
जुगुप्सा तु घृणा निन्दा चित्ते सरसि मानसम् ।साहसं तु बलात्कारकृतकर्म दमोऽपि तत् ॥
3.29.4 · p. 110
अनुष्टुप्
अलसो ना पादरोगे वृक्षे मन्दे त्वयं त्रिषु ।पुंसि वा लालसौत्सुक्ये दौहृदात्यभिलाषयोः ॥
3.29.5 · p. 110
अनुष्टुप्
पायसं परमान्ने स्याच्छ्रीवासे नाथ सारसम् ।पद्मे ना तु खगे चन्द्रे कीकसं त्वस्थ्नि ना कृमौ ॥
3.29.6 · p. 110
अनुष्टुप्
रसेऽर्जुने ना बीभत्सो विकृतक्रूरयोस्त्रिषु ।
3.29.7 · p. 110