All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
सङ्कीर्णकाण्डम् · तान्ताः
॥ इति णान्ताः ॥
अपराजितौ हरीशौ पृथिवीपतिरन्तके महीशेऽपि ।चूते वसन्तदूतः पञ्चमनिनदेऽपि कोकिलेऽपि स्यात् ॥
5.7.1 · p. 130
गीतिः
मूर्धाभिषिक्तशब्दस्त्रिषु प्रभौ क्षत्रभूपयोः पुंसि ।तौ ज्योतिषांपती द्वावशीतभानुश्च शीतभानुश्च ॥
5.7.2 · p. 130
गीतिः