कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · सान्ताः

॥ इति षान्ताः ॥

हंसः स्मरे खगे विष्णौ यतौ निर्लेपभूभुजि ॥
2.30.1 · p. 59
जीवेऽर्केऽश्वे श्वेतवृषे स्यान्मन्त्रपरमात्मनोः ।गोपक्रीडारवौ रासौ व्यासौ विस्तारतापसौ ॥
2.30.2 · p. 59
अनुष्टुप्
कंसो दैत्ये पानपात्रे कांस्ये मानान्तरेऽपि च ।भासो भासि खगे गोष्ठे त्रासो भीमणिदोषयोः ॥
2.30.3 · p. 59
अनुष्टुप्
हिंसा चौर्यादिवधयोरश्वायां मातरि प्रसूः ।कासूर्बुद्धौ कुवाच्यस्त्री शंसा स्तुत्यभिलाषयोः ॥
2.30.4 · p. 59
अनुष्टुप्
दासी चेटी च झण्टी च दासः स्याद्भृत्यशूद्रयोः ।वत्सरे कुटजे वत्सः सुतादौ तर्णके त्रिषु ॥
2.30.5 · p. 59
अनुष्टुप्
वक्षस्यस्त्री चाथ मांसं क्रव्ये मांसी जटा स्मृता ।वासो निवासाटरूषौ वासो वस्त्रे नपुंसकम् ॥
2.30.6 · p. 59
अनुष्टुप्
वसुर्ना देवभेदेषु योक्त्राग्निधनदांशुषु ।मधुरे तु त्रिषु क्लीबे सलिले धनरत्नयोः ॥
2.30.7 · p. 59
अनुष्टुप्
शृङ्गारमुख्यमधुरादिसुवर्णरेतोनिर्यासरागगरलद्रवपारदेषु ।आस्वादनध्वनिसुधाम्बुरसाख्यधातुष्विष्टो रसोऽथ रसना धरणी रसा स्यात् ॥
2.30.8 · p. 59
वसन्ततिलका