कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · षान्ताः

॥ इति शान्ताः ॥

निमेषनिमिषौ सूक्ष्मकाले पक्ष्मनिपातने ।पुरुषो धातृपुन्नागनरात्मपरमात्मसु ॥
3.28.1 · p. 109
अनुष्टुप्
आकर्षः पाशकेशारिफलके द्यूत इन्द्रिये ।विशेषोऽवयवे व्यक्तौ तिलकेऽत्यन्तभेदके ॥
3.28.2 · p. 109
अनुष्टुप्
प्रदोषौ दोषरात्र्यंशावभीषू पाशदीधिती ।संघर्षौ घर्षणस्पर्धे शैलूषौ बिल्वनर्तकौ ॥
3.28.3 · p. 109
अनुष्टुप्
आमिषं त्वस्त्रियां मांस उत्कोचे भोग्यवस्तुनि ।पुमान् पत्यौ पुनर्भ्वां स्त्री दिधिषुर्दिधिषूरपि ॥
3.28.4 · p. 109
अनुष्टुप्
रोहिषं रक्तकतृणे क्लीबे मत्स्ये मृगे च ना ।पौरुषं विक्रमे भावकर्मणोः पुरुषस्य च ॥
3.28.5 · p. 109
अनुष्टुप्
उद्बाहुविस्तृतकरनरमाने तु वाच्यवत् ।परिचर्यापि शुश्रूषा मञ्जूषा पेटिका पुरी ॥
3.28.6 · p. 109
अनुष्टुप्
नृपाग्रपत्नीसैरिभ्योर्महिषी किल्बिषं त्वघे ।अपराधेऽप्यथोष्णीषं शिरोवेष्टकिरीटयोः ॥
3.28.7 · p. 109
अनुष्टुप्
नवसूतगवीदुग्धे पीयूषममृतेऽपि च ।वा ना दिव्यविषं नाब्धावविषो निर्विषे त्रिषु ॥
3.28.8 · p. 109
अनुष्टुप्
गण्डूषस्तु द्वयोरास्यपूर्तौ द्विरदपुष्करे ।प्रसृतौ चाथ कलुषं क्लीबेंऽहस्याविले त्रिषु ॥
3.28.9 · p. 109
अनुष्टुप्
निकषः शाणफलके ना रक्षोमातरि स्त्रियाम् ।निकषाव्ययमभ्याशे कल्माषः कृष्णपाण्डरे ॥
3.28.10 · p. 109
अनुष्टुप्
कृष्णे च त्रिषु पुंस्येष दानवे पावके गुणे ।परुषो निष्ठुरे रूक्षे कर्बुरे च त्रिलिङ्गकः ॥
3.28.11 · p. 110
अनुष्टुप्