कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · मान्ताः

॥ इति भान्ताः ॥

निगमो निश्चये पुर्यां पथि वेदे वणिक्पथे ।नैगमस्तूपनिषदि धृतौ वणिजि नागरे ॥
3.22.1 · p. 94
अनुष्टुप्
विक्रमः क्रमणे शौर्ये प्रक्रमोऽवसरे क्रमे ।संक्रमो वारियन्त्रेऽपि धीसामर्थ्येऽपि निष्क्रमः ॥
3.22.2 · p. 94
अनुष्टुप्
विभ्रमः संशये भ्रान्तौ स्याद्भावान्तरशोभयोः ।संभ्रमोऽत्यादरे भीतावावेगे नियमस्त्विह ॥
3.22.3 · p. 94
अनुष्टुप्
प्रतिज्ञाज्ञायन्त्रणासु योगाङ्गे निश्चये व्रणे ।कलमः शालिलेखिन्योश्चोरे लाक्षारसेऽङ्कुरे ॥
3.22.4 · p. 94
अनुष्टुप्
आगमस्त्वागतौ शास्त्रे विद्रुमो द्रुप्रवालयोः ।त्रिधामा केशवे वह्नौ हरिमा मृत्युयोगयोः ॥
3.22.5 · p. 94
अनुष्टुप्
गरुत्मान् विहगे तार्क्ष्ये द्विजन्मा ब्राह्मणे खगे ।व्यायामः पौरुषं व्यामः संचारो दुर्गसंभृतिः ॥
3.22.6 · p. 95
अनुष्टुप्
गोलोमी स्त्री वारनार्यां षड्ग्रन्थाश्वेतदूर्वयोः ।कुसुमं पुष्पफल्योः स्त्रीरजोनेत्ररोगयोः ॥
3.22.7 · p. 95
metre not recognisednearly अनुष्टुप्
तलिमं कुट्टिमे तल्पे चन्द्रहासेऽथ गौतमः ।मुनिभेदे शाक्यसिंहे गोदावर्यां तु गौतमी ॥
3.22.8 · p. 95
अनुष्टुप्
परमं स्यादनुज्ञानेऽप्ययं ना परमात्मनि ।त्रिषूत्कृष्टे पञ्चमस्तु स्वरे ना पूरणे त्रिषु ॥
3.22.9 · p. 95
अनुष्टुप्
मुनिस्थाने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम् ।सुषमोत्कृष्टशोभायां त्रिषु चारौ समेऽप्यथ ॥
3.22.10 · p. 95
अनुष्टुप्
लक्ष्मभूषापुण्ड्रपुच्छश्रेष्ठशृङ्गाश्वलिङ्गिषु ।ध्वजे प्रभावे पुरुषे ललामोऽस्त्री ललाम च ॥
3.22.11 · p. 95
अनुष्टुप्
स्वरे ना मध्यमो देहमध्ये मध्ये नपुंसकम् ।मध्यस्थे वाच्यवत्स्त्री तु हस्तमध्याङ्गुलावपि ॥
3.22.12 · p. 95
अनुष्टुप्
छन्दोभेदे दृष्टरजःकन्यायामप्यथ त्रिषु ।सत्तमौ श्रेष्ठपूज्यौ द्वौ प्रथमौ प्रवरादिमौ ॥
3.22.13 · p. 95
अनुष्टुप्
अधमौ गर्हितन्यूनावुत्तमौ प्रवरान्तिमौ ।
3.22.14 · p. 95