कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · खान्ताः

॥ इति कान्ताः ॥

शिखी केतुग्रहे वह्नौ मयूरे कुक्कुटे द्रुमे ।पोत्रिमूषकयोराखुः शाखी पादपवेदयोः ॥
2.2.1 · p. 12
अनुष्टुप्
पुङ्खः श्येने शराग्रे च रेखा तु श्रेणिलेखयोः ।प्रेङ्खा पर्यटने वाजिगतौ रिङ्खा तु नर्तने ॥
2.2.2 · p. 12
अनुष्टुप्
गतिभेदे च शाखा तु पादे पक्षान्तरे भुजे ।निकटे पादपाङ्गे च प्रभेदे छन्दसामपि ॥
2.2.3 · p. 13
अनुष्टुप्
शिखा शिफाकेकिमौल्योर्ज्वालाशाखाग्रमौलिषु ।मुखं प्रधाने प्रारम्भे वक्त्रे निःसरणेऽपि च ॥
2.2.4 · p. 13
अनुष्टुप्
उपाये द्वारि ताम्रेऽथ सुखं स्वर्गाम्बुशर्मसु ।वरुणस्य नगर्यां तु सुखा द्रव्ये त्वयं त्रिषु ॥
2.2.5 · p. 13
अनुष्टुप्
राजौ लिपौ च लेखा स्त्री पुंस्ययं लेख्यदेवयोः ।नखोऽस्त्री नखरे ना तु षण्डे कोलदले नखम् ॥
2.2.6 · p. 13
अनुष्टुप्
न्युङ्खो मनोज्ञेऽन्यलिङ्गः साम्नः षट्प्रणवेषु ना ।सखा त्रिषु सहाये ना मित्रे शङ्खस्त्वहौ निधौ ॥
2.2.7 · p. 13
अनुष्टुप्
ललाटास्थ्नि नखे कम्बौ सङ्ख्यावलयसानुषु ॥
2.2.8 · p. 13