कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · षान्ताः

॥ इति शान्ताः ॥

प्रेषणे मर्दने प्रैषः कर्षः कर्षणमानयोः ।वृषाण इन्द्रोक्षनरास्तर्षो लिप्सापिपासयोः ॥
2.29.1 · p. 58
अनुष्टुप्
ऋषिर्वेदे वसिष्ठादौ ज्ञानवृद्धे दिगम्बरे ।मानत्वग्दोषधान्येषु माषः शोषस्तु शोषणे ॥
2.29.2 · p. 58
अनुष्टुप्
यक्ष्मण्यपि तुषस्तु स्याद्धान्यत्वचि विभीतके ।पौषो मासे महे युद्धे तृषा लिप्सापिपासयोः ॥
2.29.3 · p. 58
अनुष्टुप्
दृषत्पाषाणमात्रं च निष्पेषणशिला च सा ।मिषं तु स्पर्धने व्याजे वर्षोऽस्त्री भारतादिके ॥
2.29.4 · p. 58
अनुष्टुप्
वृष्टावब्दे प्रावृषि तु वर्षाः स्युर्भूमनि स्त्रियाम् ।वृषो धर्मोक्षपुंभेदरेतःशक्राखुवाजिषु ॥
2.29.5 · p. 58
अनुष्टुप्
राशौ शृङ्ग्यां बले ना स्याद्रेतस्विश्रेष्ठयोस्त्रिषु ।वृषा स्त्रियामाटरूषः सैव मूषिकपर्ण्यपि ॥
2.29.6 · p. 58
अनुष्टुप्
विषा त्वतिविषायां स्त्री विषं तु गरले जले ।उषा बाणसुता रात्रिर्न नोषः काल्यसंध्ययोः ॥
2.29.7 · p. 58
अनुष्टुप्
सायं निश्यव्ययं दोषा स्त्री वा ना दूषणाघयोः ।घोषो ध्वनिर्मेघनादः स एवाभीरपल्ल्यपि ॥
2.29.8 · p. 58
अनुष्टुप्
कांस्यं च घोषणा चाथ घोषा स्त्री शतपुष्पिका ।झषा नागबलायां स्त्री ना मत्स्ये मकरे वने ॥
2.29.9 · p. 58
अनुष्टुप्
शेषोऽनन्तो हरिः शेषं त्रिष्वन्यदुपयुक्ततः ।प्रासादीकृतमाल्याक्षतादौ शेषा स्त्रियां मता ॥
2.29.10 · p. 58
अनुष्टुप्
कर्षूः पुमान् करीषाग्नौ स्त्री कुल्यातुषकाष्ठयोः ।
2.29.11 · p. 58