कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · तान्ताः

॥ इति णान्ताः ॥

पर्वतौ शैलदेवर्षी जीमूतौ मेघपर्वतौ ।कुरङ्गबिन्दू पृषतौ हारीतौ मुनिपक्षिणौ ॥
3.13.1 · p. 79
अनुष्टुप्
कृतान्तौ यमसिद्धान्तौ प्रपातौ भृगुनिर्झरौ ।श्वेतस्तिलोऽपि जामाता विधाता वेधसि स्मरे ॥
3.13.2 · p. 79
अनुष्टुप्
प्रचेता वरुणे वह्नौ गभस्तिः किरणे रवौ ।द्विजातिः पक्षिविप्राद्योः श्रीपतिर्विष्णुभूपयोः ॥
3.13.3 · p. 79
अनुष्टुप्
गोपतिर्वृषभे राज्ञि शक्रे षण्डे दिवाकरे ।रमतिर्मन्मथे स्वर्गे स्थपतिः सौविदल्लकः ॥
3.13.4 · p. 79
अनुष्टुप्
कारुः सूतोऽधिपो यष्टा बृहस्पतिसवस्य च ।वृत्तान्तः स्यात्प्रकरणे प्रकारे कर्त्स्न्यवार्तयोः ॥
3.13.5 · p. 79
अनुष्टुप्
शुद्धान्तोऽन्तःपुरे राज्ञां कक्ष्यान्तररहस्ययोः ।निवातो दृढसंनाह आश्रये वातवर्जिते ॥
3.13.6 · p. 79
अनुष्टुप्
भवेच्छास्त्रेऽपि दृष्टान्तः शकुन्तो भासपक्षिणोः ।कपोतस्तु भवेत्पक्षिभेदे पारावतेऽपि च ॥
3.13.7 · p. 79
अनुष्टुप्
आनर्तो नृत्तशालायां नीवृद्भेदे जने युधि ।आवर्त आवर्तने स्याच्चिन्तने पयसां भ्रमे ॥
3.13.8 · p. 79
अनुष्टुप्
संवर्तः प्रलये मेघे विभीतकतरावपि ।भवेत्तदात्वेऽप्यापात आघातः सीमघातयोः ॥
3.13.9 · p. 80
अनुष्टुप्
उपक्रमे स्यादुद्घातश्चरणस्खलनेऽपि सः ।संघातो नरके बृन्दे व्याघातो विघ्नयोगयोः ॥
3.13.10 · p. 80
अनुष्टुप्
भरतः शबरे रामानुजे भारतवर्षके ।दुष्यन्तजे नटे नाट्यशास्त्रकृत्तन्तुवाययोः ॥
3.13.11 · p. 80
अनुष्टुप्
सिकता स्याद्वालुकायां शर्करायां गदान्तरे ।सिकतावत्प्रदेशे ना तृणता तु धनुष्यपि ॥
3.13.12 · p. 80
अनुष्टुप्
संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः ।वसतिः स्थाननिशयोर्जिनवेश्मनि वेश्मनि ॥
3.13.13 · p. 80
अनुष्टुप्
संततिः पङ्क्तिविस्तारे पारंपर्ये सुतान्वये ।आयतिः स्याद्दीर्घतायां प्रभावागामिकालयोः ॥
3.13.14 · p. 80
अनुष्टुप्
समितिः संगरे साम्ये सभायां संगमे च सा ।प्रकृतिः पञ्चभूतेषु स्वभावे सचिवादिषु ॥
3.13.15 · p. 80
अनुष्टुप्
प्रधाने कारणे गृह्ये जन्तौ छन्दसि मातरि ।निवृत्तिर्मनसस्तोषे मोक्षे प्रत्यागतावपि ॥
3.13.16 · p. 80
अनुष्टुप्
आकृतिर्गात्रसामान्यच्छन्दोरूपेष्वथादितिः ।उमा भूर्देवमाता च निकृतिः शाठ्यभर्त्सने ॥
3.13.17 · p. 80
अनुष्टुप्
नियती दैवनियमाविच्छानुज्ञे तु सम्मती ।प्रसूती जन्मतनयौ पद्धती पङ्क्तिवर्त्मनी ॥
3.13.18 · p. 80
अनुष्टुप्
दुर्गती नैःस्व्यनरकौ व्रतती ततिवीरुधौ ।संवित्ती ज्ञानसंवादौ सुखनाशौ तु निर्वृती ॥
3.13.19 · p. 80
अनुष्टुप्
प्रवृत्ती निर्झरोदन्तौ विच्छित्ती भावलेपने ।पक्षमूले प्रतिपदि पक्षतिर्जगती भुवि ॥
3.13.20 · p. 81
अनुष्टुप्
वस्तौ छन्दसि लोकेऽथ रेवती सीरिपत्न्यपि ।बृहती क्षुद्रवार्ताकीक्षुद्राछन्दःसु वाचि च ॥
3.13.21 · p. 81
अनुष्टुप्
मालती युवतीज्योत्स्नाजातीषु सरिदन्तरे ।जीवन्ती जीवनीशम्योर्गुडूचीवन्दयोरपि ॥
3.13.22 · p. 81
अनुष्टुप्
हसन्ती शाकिनीभेदो मल्लिकाङ्गारधान्यपि ।वसन्ती माधवीयूथ्योः पाटलायां क्रमेलके ॥
3.13.23 · p. 81
अनुष्टुप्
वनिता जनितात्यन्तरागयोषिति योषिति ।रसितं स्तनिते ध्वाने निमित्तं हेतुचिह्नयोः ॥
3.13.24 · p. 81
अनुष्टुप्
क्रन्दितं रुदिते हूताविङ्गितं गतिचेष्टयोः ।अनन्तं गगने क्लीबे पुमान्केशवशेषयोः ॥
3.13.25 · p. 81
अनुष्टुप्
अनन्ता पूर्णिमा दूर्वा विशल्या शारिबा मही ।कृषावप्यनृतं मिथ्या विष्णावप्यजिताच्युतौ ॥
3.13.26 · p. 81
अनुष्टुप्
क्लीबं प्रधानेऽप्यव्यक्तं विष्णुशंकरयोः पुमान् ।निर्मुक्तो मुक्तसंसारे मुक्तकञ्चुकपन्नगे ॥
3.13.27 · p. 81
अनुष्टुप्
उन्मत्तः पुंसि दुत्तूरे दुर्जातं व्यसनेऽपि च ।आख्यातं तिङि च क्लीब आप्लुतं स्नातके च ना ॥
3.13.28 · p. 81
अनुष्टुप्
अक्षतं तण्डुले धान्ये क्लीबं लाजेषु चेन्न ना ।यवेषु पुंस्यथोत्तप्तं शुष्कमांसेऽपि न द्वयोः ॥
3.13.29 · p. 81
अनुष्टुप्
आचितः शकटोन्नेये पलानामयुतद्वये ।अनन्ताद्या निरन्तादिष्वनुक्तार्थेषु वाच्यवत् ॥
3.13.30 · p. 82
अनुष्टुप्
त्रिष्वाहतं स्याद्गुणिते मृषार्थे ताडितेऽपि च ।क्लीबे त्वयं जीर्णवस्त्रे रजतं धवले त्रिषु ॥
3.13.31 · p. 82
अनुष्टुप्
क्लीबं हारे दन्तिदन्ते नक्षत्रे हेमरूप्ययोः ।पलितं जरसा शौक्ल्ये शैलेये कर्दमे तु ना ॥
3.13.32 · p. 82
अनुष्टुप्
हारभेदे विलासे च ललिता चारुणि त्रिषु ।गर्जितं बृंहिते मेघध्वनौ ना तु मदद्विपे ॥
3.13.33 · p. 82
अनुष्टुप्
जृम्भितं जृम्भणे क्लीबे त्रिषूत्फुल्लविवृद्धयोः ।निरम्बु तक्रं मथितं क्लीबमालोडिते त्रिषु ॥
3.13.34 · p. 82
अनुष्टुप्
प्रसृतोऽर्धाञ्जलौ जङ्घा प्रसृता वेगिते त्रिषु ।क्लीबे स्यात्सुकृतं धर्मे त्रिषु सुष्टुकृते शुभे ॥
3.13.35 · p. 82
अनुष्टुप्
कुचन्दनासृग्गोशीर्षकुङ्कुमेषु तु लोहितम् ।पुमान्भौमे रोहितं तु ऋजुशक्रायुधासृजोः ॥
3.13.36 · p. 82
अनुष्टुप्
ना तु मीने मृगे चैतौ त्रिषु द्रव्ये गुणे नरौ ।पुष्पे क्लीबं सारथौ ना प्रसूतं जनिते त्रिषु ॥
3.13.37 · p. 82
अनुष्टुप्
विनीतः सुखवाह्याश्ववणिजोर्ना त्रिषु त्वयम् ।अपनीते शिक्षिते च निभृते निर्जितेन्द्रिये ॥
3.13.38 · p. 82
अनुष्टुप्
वाग्वृत्तिभेदौ भारत्यौ ग्रन्थे वर्षे च भारतम् ।किराती कुट्टनी म्लेच्छा भूनिम्बेऽल्पतनौ च ना ॥
3.13.39 · p. 82
अनुष्टुप्
स्यादुदात्तः स्वरे पुंसि वदान्यमहतोस्त्रिषु ।निशान्तस्त्रिषु शान्ते स्यात्क्लीबे तूषसि सद्मनि ॥
3.13.40 · p. 83
अनुष्टुप्
त्रिषूद्वान्तः समुद्गीर्णे पुमान्निर्मददन्तिनि ।विश्वस्ता विधवायां स्याद्विश्वासार्हे तु वाच्यवत् ॥
3.13.41 · p. 83
अनुष्टुप्
जयन्ती स्पादपर्णायां तर्कारीतिथिभेदयोः ।जयन्तः शक्रपुत्रेऽपि वासितं तु खगध्वनौ ॥
3.13.42 · p. 83
अनुष्टुप्
वासिता करिणीनार्योस्त्रिष्वयं सुरभीकृते ।निर्ऋतिः स्यादलक्ष्म्यां स्त्री दिक्पाले तु पुमानयम् ॥
3.13.43 · p. 83
अनुष्टुप्
स्याद्यज्ञशेषाम्बुनभोरसायनक्षीराज्यमोक्षान्नसुधासु चामृतम् ।पथ्यागुडूच्यामलकीष्वयं स्त्रियां देवेषु ना स्वाद्वविनाशिनोस्त्रिषु ॥
3.13.44 · p. 83
इन्द्रवंशा
उषितौ व्युषितप्लुष्टावादृतौ सादरार्चितौ ।स्तिमितौ निश्चलक्लिन्नौ विदितौ ज्ञातसंश्रुतौ ॥
3.13.45 · p. 83
अनुष्टुप्
पिण्डितौ सान्द्रगणितौ फलितौ पक्वदारितौ ।स्थापितौ निश्चलन्यस्तौ भावितौ लब्धवासितौ ॥
3.13.46 · p. 83
अनुष्टुप्
प्रोक्षितौ सिक्तनिहतौ मूषितौ हृतखण्डितौ ।प्रभूतौ प्राज्यसंजातावुदितौ गदितोद्गतौ ॥
3.13.47 · p. 83
अनुष्टुप्
वेल्लितौ कुञ्चितधुतौ ज्वलितौ दग्धभासुरौ ।विधुतौ कम्पितत्यक्तौ प्रयतौ संस्कृतार्चितौ ॥
3.13.48 · p. 83
अनुष्टुप्
प्रहतौ क्षुण्णव्युत्पन्नौ संगतौ दृढसंहतौ ।विततौ विस्तृतव्याप्तौ प्रणतौ भुग्नशिक्षितौ ॥
3.13.49 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्ण (wrong syllable)
भुक्तोज्झिते चोत्तुलितेऽप्युद्धृतं स्खलितं पुनः ।मत्ते प्रतिहते चाथ याचिते हिंसितेऽर्दितम् ॥
3.13.50 · p. 84
अनुष्टुप्
उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसे ।उत्थितं वृद्धिसंयुक्ते प्रोद्यतोत्पन्नयोरपि ॥
3.13.51 · p. 84
अनुष्टुप्
आयस्ताः कुपितक्षिप्तहृतक्लेशिततेजिताः ।निरस्तास्त्यक्तनिष्ठ्यूतत्वरितोक्तनिराकृताः ॥
3.13.52 · p. 84
अनुष्टुप्
मूर्छितं सोच्छ्रये मूढे दृढे व्याप्तेऽथ वर्धितम् ।प्रसृते पूरिते छिन्ने संस्कृतं तु विभूषिते ॥
3.13.53 · p. 84
अनुष्टुप्
कृत्रिमे लक्षणोपेते प्रशस्ते निर्मलीकृते ।प्रतीतः प्रथिते हृष्टे परिज्ञाते विभूषिते ॥
3.13.54 · p. 84
अनुष्टुप्
व्यायतं स्याद्दृढे दीर्घे व्यापृतेऽतिशयेऽपि च ।विविक्तं विजनेऽपि स्यादसंपृक्ते पवित्रिते ॥
3.13.55 · p. 84
अनुष्टुप्
बीभत्सरोगिदूरूपा विकृताः सूनृतं प्रियम् ।प्रियसत्यवचश्चाथ कलितो ज्ञातबद्धयोः ॥
3.13.56 · p. 84
अनुष्टुप्
पर्याप्तं परिपूर्णे स्यात्तृप्ते शक्तप्रकामयोः ।सुहितोऽतिहिते तृप्ते त्रिष्वमी उषितादयः ॥
3.13.57 · p. 84
अनुष्टुप्