कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · णान्ताः

॥ इति ढान्ताः ॥

द्रुहिणौ हरिधातारौ गजोक्षाणौ विषाणिनौ ।तताङ्गुष्ठानामिकाभ्यां कृतोन्माने मृगान्तरे ॥
3.12.1 · p. 75
अनुष्टुप्
भुजगेऽश्वतरेऽपि स्याद्गोकर्णोऽप्यथ मत्कुणः ।खट्वाकीटे निर्विषाणगजे निःश्मश्रुपूरुषे ॥
3.12.2 · p. 75
अनुष्टुप्
वरुणः स्याद्वृक्षभेदे भानौ पश्चिमदिक्पतौ ।द्रुघणो मुद्गरेऽलिन्दे ताम्रकुम्भे परश्वधे ॥
3.12.3 · p. 75
अनुष्टुप्
वेधसि प्रघणस्तु स्यादलिन्दे लोहमुद्गरे ।रोहिणी रोहिता पथ्या कन्योमा कटुरोहिणी ॥
3.12.4 · p. 76
अनुष्टुप्
गौस्तारा कण्ठरोगश्च सरणिः पङ्क्तिवर्त्मनोः ।पूर्वापराहर्युग्रात्रिर्बन्दी राका च पक्षिणी ॥
3.12.5 · p. 76
अनुष्टुप्
इन्द्राणी स्यात्सिन्धुवारे पौलोमीरतिबन्धयोः ।मूर्वासुराप्रतीचीषु वारुणी स्यादथारणिः ॥
3.12.6 · p. 76
अनुष्टुप्
निर्मथ्यकाष्ठेऽग्निमन्थे काकिण्येकवराटके ।मानदण्डस्य तुर्यांशे माषस्य च पणस्य च ॥
3.12.7 · p. 76
अनुष्टुप्
नौदण्डे जालभेदेऽपि क्षेपणिर्विपणिः पुनः ।पण्यवीथ्यापणः पण्यं प्रवेणी वेणिका कुथा ॥
3.12.8 · p. 76
अनुष्टुप्
शरणं स्याद्रक्षितरि रक्षणे मन्दिरे वधे ।हरणं यौतकद्रव्ये तप्तशीतजले हृतौ ॥
3.12.9 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्र (wrong syllable)
प्रमाणं प्रमितीयत्तामर्यादाशास्त्रहेतुषु ।आप्तेऽथ द्रविणं गेहे वित्ते स्वर्णे पराक्रमे ॥
3.12.10 · p. 76
अनुष्टुप्
निर्याणं हस्तिनेत्रान्ते मरणे निर्गतेऽपि च ।निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने ।स्यात्कङ्कणं हस्तसूत्रे शेखरे हस्तमण्डने ॥
3.12.11 · p. 76
अनुष्टुप्metre not read in every line
श्रवणं भे श्रुतौ कर्णे तर्पणं तृप्तिरिन्धनम् ।प्रयाणं गजदृक्पूर्वप्रदेशे मरणे गतौ ॥
3.12.12 · p. 76
अनुष्टुप्
करणमिह बबादौ कारणे क्षेत्रमुख्येवपुषि सुरतबन्धे कर्मगीतेन्द्रियेषु ।अतिशयितनिदाने ध्यानपद्मासनाद्योःस करण इति शूद्रावैश्ययोर्यस्तनूजः ॥
3.12.13 · p. 77
मालिनी
अरुणोऽर्के तत्सूते वर्णे संध्याम्बुदेऽरुणं ताम्रे ।अरुणातिविषा त्रिवृता त्रिषु रक्ता व्यक्तरागयोरेषः ॥
3.12.14 · p. 77
गीतिः
करुणो ना वृक्षभेदे रसे च करुणा कृपा ।प्राकारे तिक्तशाके च वरणो वरणं वृतिः ॥
3.12.15 · p. 77
अनुष्टुप्
संचारे चरणं क्लीबे स्थण्डिले प्राङ्गणे तथा ।एकशाखाध्यायिषु ना न स्त्री मूले कुले पदे ॥
3.12.16 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध्या (wrong syllable)
लवणः सागरे दैत्ये रसे ना तद्वति त्रिषु ।उष्ट्रे भृङ्गे रासभे ना रवणः शब्दने त्रिषु ॥
3.12.17 · p. 77
अनुष्टुप्
मानभेदे धारणे च धरणं धरणी भुवि ।दक्षिणः सरले याम्यदिक्स्थे छन्दानुवर्तिनि ॥
3.12.18 · p. 77
अनुष्टुप्
अपसव्ये त्रिष्वयं तु देशभेदे दिशि स्त्रियाम् ।धर्षणं सुरते धार्ष्ट्ये तिरस्कारेऽथ धर्षिणी ॥
3.12.19 · p. 77
अनुष्टुप्
कुलटायामूषणा तु कणा मरिचमूषणम् ।धीगौर्योर्धिषणा ना तु गीष्पतावथ मार्गणम् ॥
3.12.20 · p. 77
अनुष्टुप्
याच्ञान्वेषणयोः क्लीबे पुमान्याचकबाणयोः ।चिह्ननाम्नोः सलक्ष्मीके सौमित्रौ सारसस्त्रियाम् ॥
3.12.21 · p. 77
अनुष्टुप्
क्रमेण लक्ष्मणः क्लीबे त्रिषु पुंसि स्त्रियामपि ।हरिणः स्यान्मृगे पाण्डुवर्णे ना तद्वति त्रिषु ॥
3.12.22 · p. 78
अनुष्टुप्
योषिद्वृत्ताप्सरोभेदाः सुवर्णप्रतिमा मृगी ।हरिता च हरिण्यः स्युः प्रवणो ना चतुष्पथे ॥
3.12.23 · p. 78
अनुष्टुप्
त्रिषु तु क्रमनिम्नोर्व्यां प्रह्वे तत्परदक्षयोः ।कल्याणं मङ्गले स्वर्णे कल्याणी पार्वतीभुवोः ॥
3.12.24 · p. 78
अनुष्टुप्
कर्तर्यां छुरिकायां च कृपाणी स्यादसौ तु ना ।पुराणं ग्रन्थभेदे च क्लीबे त्रिषु पुरातने ॥
3.12.25 · p. 78
अनुष्टुप्
रोषणस्त्रिषु सक्रोघे पुमांस्तु निकषोपले ।पारदे च निषेधे तु वारणं कुञ्जरे पुमान् ॥
3.12.26 · p. 78
अनुष्टुप्
मसृणं कर्कशे स्निग्धे वाच्यवन्मसृणा क्षमा ।पूरणी शाल्मलिः पिष्टे पूरणं पूरके त्रिषु ॥
3.12.27 · p. 78
अनुष्टुप्
स्यात्करेणुः करिण्यां स्त्री कर्णिकारे गजे च ना ।कृपणः कुत्सिते निःस्वे वाच्यलिङ्गः क्रिमौ पुमान् ॥
3.12.28 · p. 78
अनुष्टुप्
सुवर्णं कनके वित्ते कर्षमात्रे च न द्वयोः ।सुप्रभे त्रिषु रूप्ये तु दुर्वर्णं दुष्प्रभे त्रिषु ॥
3.12.29 · p. 78
अनुष्टुप्
सुपर्णा तार्क्ष्यजननी ना तार्क्ष्यकृतमालयोः ।पत्रोर्णं धौतकौशेये पुंसि त्वरलुपादपे ॥
3.12.30 · p. 78
अनुष्टुप्
गम्भार्यां कट्फलेऽपि श्रीपर्णी पद्माग्निमन्थयोः ।क्लीबेऽथ भरणं भृत्यां वेतने भरणी तु भे ॥
3.12.31 · p. 78
अनुष्टुप्
ब्राह्मणी हञ्जिका वेदे ब्राह्मणं पुंसि तु द्विजे ।तरणिः स्त्री नावि नद्यां कुमार्याख्यौषधावपि ॥
3.12.32 · p. 78
अनुष्टुप्
ना त्वयं सागरे भानौ ग्रामणीः पतिमुख्ययोः ।ग्रामेशे च त्रिष्वयं तु भोगीशे नापितेऽपि च ॥
3.12.33 · p. 79
अनुष्टुप्
विषाणं क्रोडदंष्ट्रायां पशुशृङ्गेभदन्तयोः ।हरिणं शून्यभूभाग ऊषरे द्वाविमौ त्रिषु ॥
3.12.34 · p. 79
अनुष्टुप्