कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · रान्ताः

॥ इति यान्ताः ॥

करो वर्षोपले पाणौ शुण्डायां किरणे बलौ ।नरो मनुष्यार्जुनयोर्भरोऽतिशयभारयोः ॥
2.25.1 · p. 45
अनुष्टुप्
भरो भारश्च लाभे स्याद्दुर्भरे भाररागयोः ।भारो भरे विवृद्धौ च पलानां द्विसहस्रके ॥
2.25.2 · p. 45
अनुष्टुप्
नासावायुप्राणिरवषड्जोदात्ताद्यचः स्वराः ।क्षुरस्तु छेदनद्रव्ये गोक्षुरे कोकिलाक्षके ॥
2.25.3 · p. 46
अनुष्टुप्
चारस्तु पिप्पलीवृक्षे गतौ मन्थानसर्पयोः ।चारः स्पशे प्रियालौ च खुरः कोलदले शके ॥
2.25.4 · p. 46
अनुष्टुप्
वारः सूर्यादिदिवसे बृन्दावसरयोरपि ।क्षारस्तु लवणे काचे रसभेदे च भस्मनि ॥
2.25.5 · p. 46
अनुष्टुप्
वृत्रोऽरिध्वान्तदैत्येषु शक्रः कुटजवज्रिणोः ।मन्त्रौ गूढोक्तिवेदांशौ यूपांशे कुलिशे स्वरुः ॥
2.25.6 · p. 46
अनुष्टुप्
कारुः शिल्पी विश्वकर्मा सुरमारुतयोर्मरुत् ।मरुर्धन्वनि शैले च स्थालीहव्यान्नयोश्चरुः ॥
2.25.7 · p. 46
अनुष्टुप्
अद्रयो द्रुमशैलार्काः स्यादङ्घ्रिः पादबुध्नयोः ।ऐन्द्रिः काकासुरेऽपि स्याज्जयन्तार्जुनयोरपि ॥
2.25.8 · p. 46
अनुष्टुप्
दंष्ट्री सदंष्ट्रग्राहेऽहौ शार्दूले मूषिके किटौ ।चक्री विष्णौ कुलालेऽहौ पत्री श्येनेषुपक्षिषु ॥
2.25.9 · p. 46
अनुष्टुप्
सम्राजोऽग्नीन्द्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वरः ।राजसूयेन येनेष्टं राज्ञः शास्त्याज्ञया च यः ॥
2.25.10 · p. 46
अनुष्टुप्
इन्द्रा वृषात्मशक्रार्काः हरा रुद्राग्निगर्दभाः ।पुण्ड्रो देशेक्षुतिलकभेदे क्रिम्यतिमुक्तयोः ॥
2.25.11 · p. 46
अनुष्टुप्
धारा पूः कापि सेनाग्रं पतदम्ब्वादिसंततिः ।खड्गादिनिशितप्रान्तस्तुरङ्गगतिपञ्चकम् ॥
2.25.12 · p. 46
अनुष्टुप्
इरा सुराम्बुवाग्भूषु ऋतुवत्सरयोः शरत् ।उपमाता च धात्री च भूमिरामलकी च सा ॥
2.25.13 · p. 46
अनुष्टुप्
तरिर्दशायां नावि स्याद्वस्त्रादीनां च पेटके ।तन्द्री तन्द्रेत्युभौ शब्दौ स्यातां निद्राप्रमीलयोः ॥
2.25.14 · p. 47
अनुष्टुप्
वीरुधौ गुल्मगुल्मिन्यौ गीर्णौ स्त्री आचले गिरिः ।तद्रू(र्दू)र्द्रोणिप्लवे दर्व्यां यात्रा गत्यां च यापने ॥
2.25.15 · p. 47
अनुष्टुप्
द्वारं तु द्वार्युपाये च क्षीरं स्यान्नीरदुग्धयोः ।अग्रं पुरःशिखामानश्रेष्ठाधिकपलादिषु ॥
2.25.16 · p. 47
अनुष्टुप्
कृच्छ्रं सांतपनादौ च कष्टे दुःखैनसोरपि ।नभःस्वर्गाम्बुदेष्वभ्रमुरसी श्रेष्ठवक्षसी ॥
2.25.17 · p. 47
अनुष्टुप्
सरसी जलकासारौ तरसी बलरंहसी ।शिरः प्रधाने सेनाग्रे द्रुमाद्यग्रेषु मस्तके ॥
2.25.18 · p. 47
अनुष्टुप्
गात्रं प्रतीके दन्त्यग्रजङ्घाभागे वपुष्यपि ।पत्रं पर्णे वाहने च छुरिकागरुतोरपि ॥
2.25.19 · p. 47
अनुष्टुप्
सीरः सूकरवक्त्राग्रं पोत्रं पात्रं तु भाजनम् ।तीरद्वयान्तरे योग्ये द्रविणे राजमन्त्रिणि ॥
2.25.20 · p. 47
अनुष्टुप्
सत्रं यज्ञे यज्ञभेदे सदादाने वनेंऽशुके ।सूत्रं तु सूचनग्रन्थभेदे तन्तुव्यवस्थयोः ॥
2.25.21 · p. 47
अनुष्टुप्
नेत्रं विलोचने वस्त्रे तरुमूले मयोर्गुणे ।क्षेत्रं भार्याङ्गकेदारपुण्यभूगृहयोनिषु ॥
2.25.22 · p. 47
अनुष्टुप्
ग्रन्थशासनयोः शास्त्रं शस्त्रमायुधचापयोः ।छिद्रं रन्ध्रे दूषणे च वक्त्रं वृत्तान्तरेऽपि च ॥
2.25.23 · p. 47
अनुष्टुप्
रन्ध्रं तु द्विषतां मृग्यदोषे द्वारसुरङ्गयोः ।अरं तु शीघ्रे चक्राङ्गे शीघ्रगामिनि तु त्रिषु ॥
2.25.24 · p. 47
अनुष्टुप्
श्रेष्ठान्यदूरज्येष्ठेषु परः स्याद्वाच्यलिङ्गकः ।परोऽरिः परमात्मा च केवले परमव्ययम् ॥
2.25.25 · p. 48
अनुष्टुप्
देवप्रसादे वरणे जामातरि वरः पुमान् ।क्लीबे तु कुङ्कुमे श्रेष्ठे त्रिष्विष्टे त्वव्ययं वरम् ॥
2.25.26 · p. 48
अनुष्टुप्
शरो दध्याद्यग्रसारे बाणे काण्डे तृणान्तरे ।शरं तु नीरे दूते तु चरो ना जङ्गमे त्रिषु ॥
2.25.27 · p. 48
अनुष्टुप्
दरोऽस्त्री शङ्खभययोर्गर्तेऽपि च गुहा दरी ।दरेत्यव्ययमल्पार्थे गुग्गुलौ तु पुरः पुमान् ॥
2.25.28 · p. 48
अनुष्टुप्
गृहोपरिगृहे देहे नगरे च पुरं पुरी ।पुरोऽग्रे पूर्वकाले तु पुरा स्यादव्ययं द्वयम् ॥
2.25.29 · p. 48
अनुष्टुप्
सुरो देवे सुरा मद्ये धरः शैले धरा भुवि ।कारो वधे बले यत्ने कारा स्याद्बन्धनालये ॥
2.25.30 · p. 48
अनुष्टुप्
वारिः स्त्री दन्तिनां पादरज्ज्वां सृणिगुणे क्वचित् ।पारी पत्त्र्यां परतटे परमारस्तु भूसुते ॥
2.25.31 · p. 48
अनुष्टुप्
आरा चर्मप्रभेदिन्यां मित्रं सुहृदि ना रवौ ।तारोऽत्युच्चैःस्वरे मुक्ताविशुद्धौ शुद्धमौक्तिके ॥
2.25.32 · p. 48
अनुष्टुप्
तरणे चाथ तारा स्यात्सुग्रीवगुरुयोषितोः ।कनीनिकर्क्षयोस्त्वेष द्वयोस्तारं तु रूप्यके ॥
2.25.33 · p. 48
अनुष्टुप्
मारो ना मरणे कामे मारी चण्ड्यां जनक्षये ।मुक्ताल्यां हरणे हारो हरसंबन्धिनि त्रिषु ॥
2.25.34 · p. 48
अनुष्टुप्
चक्रं चये जलावर्ते रथाङ्गे राष्ट्रसैन्ययोः ।घटसाधनभेदेऽपि क्लीबे कोके तु पुंस्ययम् ॥
2.25.35 · p. 48
अनुष्टुप्
शुक्रं रेतस्यक्षिरोगे पुण्ये रुक्मे सुराम्बुनोः ।शुक्रोऽग्निमासकव्येषु वक्रो भौमेऽनृजौ त्रिषु ।शूद्रायां क्षत्रजः शंभुश्चोग्रो घोरे त्वयं त्रिषु ॥
2.25.36 · p. 48
अनुष्टुप्metre not read in every line
सुखमङ्गलयोर्भद्रं स्याद्द्रव्यश्रेष्ठयोस्त्रिषु ।भद्रा तु करणे तिथ्यां भद्रश्चापि गजान्तरे ॥
2.25.37 · p. 49
अनुष्टुप्
क्षुद्रस्तु त्रिषु हीनाङ्गे क्रूरे नीचाल्पयोरपि ।क्षुद्रा निदिग्धिका वेश्या नटी च सरघा च सा ॥
2.25.38 · p. 49
अनुष्टुप्
रौद्रो रसान्तरे घोरे रुद्रसम्बन्धिनि त्रिषु ।इन्दुकर्पूरयोश्चन्द्रश्चन्द्रं स्वर्णमथास्त्रियाम् ॥
2.25.39 · p. 49
अनुष्टुप्
राष्ट्रं विषय उत्पाते वज्रोऽस्त्री पविहीरयोः ।अश्रुशोणितयोरस्रमास्त्रं चाद्यस्तु ना कचे ॥
2.25.40 · p. 49
अनुष्टुप्
क्लेशे तूभौ नरौ स्यातामथ व्याघ्री निदिग्धिका ।व्याघ्रो द्वीपिन्ययं श्रेष्ठवाची शब्दात्परस्थितः ॥
2.25.41 · p. 49
अनुष्टुप्
पौरं तु कत्तृणे क्लीबमयं पुरभवे त्रिषु ।गौरोऽरुणे सिते पीते त्रिषु गौरी तु पार्वती ॥
2.25.42 · p. 49
अनुष्टुप्
अनागतर्तुकन्या च ताम्रं शुल्बेऽरुणे त्रिषु ।सारो बले स्थिरांशेऽर्थे पुमान्न्याय्ये वरे त्रिषु ॥
2.25.43 · p. 49
अनुष्टुप्
क्लीबमम्बुनि शारस्तु वायौ ना कर्बुरे त्रिषु ।बभ्रुः कृशानौ नकुले शंभौ ना त्रिषु पिङ्गले ॥
2.25.44 · p. 49
अनुष्टुप्
हरिर्यमार्काश्वाग्नीन्दुविष्ण्विन्द्रांशुशुकानिले ।भेकाहिकपिसिंहेषु हरिर्ना कपिले त्रिषु ॥
2.25.45 · p. 49
अनुष्टुप्
हीरः सिंहाहिवज्रेषु हीरा लक्ष्मीः पिपीलिका ।शस्त्री तु छुरिका शस्त्रं शंसावाक्येऽस्त्रलोहयोः ॥
2.25.46 · p. 50
अनुष्टुप्
गुरुर्निषेकादिकरे पुरोधसि बृहस्पतौ ।पित्रादौ ना बृहत्ख्यातदुर्भरालघुषु त्रिषु ॥
2.25.47 · p. 50
अनुष्टुप्
भुजङ्गमाता कद्रूः स्त्री कद्रूः स्यात्पिङ्गले त्रिषु ।शारिः पुंस्येव पर्याणे स्त्रियामेव खगान्तरे ॥
2.25.48 · p. 50
अनुष्टुप्
पुंसि स्त्रियां च द्यूताङ्गे भूरि स्वर्णे बहौ त्रिषु ।गजबन्धनभूमौ स्त्री वारी वारि तु पाथसि ॥
2.25.49 · p. 50
अनुष्टुप्
शूरो ना कुक्कुटे वीरे त्रिषु धीरस्तु ना बुधे ।अम्बुधौ च त्रिषु त्वेष मन्थरे धैर्यवत्यपि ॥
2.25.50 · p. 50
अनुष्टुप्
हरित्क्लीबं तृणे नाश्वे वर्णे त्रिषु दिशि स्त्रियाम् ।स्थिरा क्षोणीसालपर्ण्योरयं तु त्रिषु निश्चले ॥
2.25.51 · p. 50
अनुष्टुप्
वप्रोऽस्त्रियां तीरसेतुप्राकारक्षेत्रवाचकः ।आर्द्रा भे स्त्री त्रिषु क्लिन्ने गौरुस्रा किरणे तु ना ॥
2.25.52 · p. 50
अनुष्टुप्
गोत्रं नाम्नि कुले क्षेत्रे गोत्रा भुवि गवांगणे ।गोत्रः शैलेऽथ मात्रं स्यादवधारणकार्त्स्न्ययोः ॥
2.25.53 · p. 50
अनुष्टुप्
मात्रा परिच्छदे वर्णमाने कर्णादिभूषणे ।सैवाल्पपरिमाणे च छत्रमातपवारणे ॥
2.25.54 · p. 50
अनुष्टुप्
छत्रा मधुरिकायां स्यात्कुस्तुम्बर्यां शिलीन्ध्रके ।तन्त्रं स्वराष्ट्रचिन्तायां तन्तुवाये परिच्छदे ॥
2.25.55 · p. 50
अनुष्टुप्
यागप्रयोगे सिद्धान्ते शास्त्रमुख्यौषधेऽपि च ।एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ॥
2.25.56 · p. 51
अनुष्टुप्
तन्त्री गुडूच्यां वीणादिगुणे देहसिरासु च ।तिलकालेख्ययोश्चित्रं त्रिषु त्वाश्चर्यवर्णयोः ॥
2.25.57 · p. 51
अनुष्टुप्
चित्राखुपर्णी गोतुम्बा ताराभेदेऽप्यथोत्तरे ।त्रिषु क्रूराः कर्कशोष्णनृशंसक्रुद्धभीषणाः ॥
2.25.58 · p. 51
अनुष्टुप्
सुभटोत्तमयोर्वीरः स्वैरः स्वच्छन्दमन्दयोः ।तीव्रः कटुभृशोष्णेषु व्यग्रो व्यापृत आकुले ॥
2.25.59 · p. 51
अनुष्टुप्