कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · हान्ताः

॥ इति सान्ताः ॥

प्रतिग्रहः सैन्यपृष्ठे दानद्रव्ये परिग्रहे ॥
4.26.1 · p. 128
स्वीकारे चाब्जयोनौ पितृताते पितामहः ।उपनाहो व्रणे लेपे वीणायाश्च निबन्धने ॥
4.26.2 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके ।परिबर्हो राजयोग्यवस्तुन्यग्नौ परिच्छदे ॥
4.26.3 · p. 128
अनुष्टुप्
परीवाहो जलोच्छ्वासे क्षितिभुग्भोग्यवस्तुनि ।अवरोहोऽवतरणं लता चाग्रं गताङ्ध्रितः ॥
4.26.4 · p. 128
अनुष्टुप्
अभिग्रहोऽभियोगे च चन्द्राग्न्यर्कास्तमोपहः ।उपग्रहस्तु ग्रहणे स्याद्बन्द्यामनुकूलने ॥
4.26.5 · p. 128
अनुष्टुप्
वरारोहा नितम्बिन्यां कट्यां गन्धवहः पुनः ।वायौ वा नासिकायां स्त्री गरुर्लोम्नोस्तनूरुहम् ॥
4.26.6 · p. 128
अनुष्टुप्