कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · मान्ताः

॥ इति भान्ताः ॥

अभ्यागमोऽभ्यागमने स्यात्संगरसमीपयोः ।सार्वभौमः सर्वपृथ्वीपालके दिग्गजान्तरे ॥
4.18.1 · p. 122
अनुष्टुप्
उपक्रमः स्यादुपधाचिकित्सारम्भवाचकः ।महापद्मो नागभेदे निधिसंख्याविशेषयोः ॥
4.18.2 · p. 122
अनुष्टुप्
विश्वकर्मा सहस्रांशौ देवशिल्पिनि वेधसि ।वातप्रमीर्मृगेऽश्वे च शौर्योद्योगौ पराक्रमौ ॥
4.18.3 · p. 122
अनुष्टुप्
अङ्गीकृतावुपगमः समीपगमनेऽपि सः ।ज्येष्ठभ्रातर्यग्रजन्मा ब्राह्मणे चाप्यथ त्रिषु ॥
4.18.4 · p. 122
अनुष्टुप्
यातयामं गतरसे जीर्णभुक्तोज्झितेऽपि च ।
4.18.5 · p. 122