कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · यान्ताः

॥ इति मान्ताः ॥

हलीन्दुजौ रौहिणेयौ भल्लसिंहौ गुहाशयौ ।दीर्घद्वेषेऽप्यनुशयः पश्चात्तापानुबन्धयोः ॥
4.19.1 · p. 122
अनुष्टुप्
समुदायः समुदयो द्वाविमौ वृद्धिबृन्दयोः ।बाहुलेयो वृषे स्कन्दे बाडवेयोऽश्विनोर्द्विजे ॥
4.19.2 · p. 123
अनुष्टुप्
समाह्वयो नाम्नि युद्धे द्यूते च पशुपक्षिभिः ।स्थूलोच्चयस्त्वसाकल्ये दन्तिनां मध्यमे गते ॥
4.19.3 · p. 123
अनुष्टुप्
धनंजयोऽर्जुने शक्रे दहने देहमारुते ।समुच्छ्रयः स्यादुत्सेधे विरोधे च प्रतिश्रयः ॥
4.19.4 · p. 123
अनुष्टुप्
सभायां चाश्रये चाथावश्यायो हिमगर्वयोः ।सांपरायस्तु समरे विपदागामिकालयोः ॥
4.19.5 · p. 123
अनुष्टुप्
अन्तशय्या श्मशाने च भूशय्यायां मृतावपि ।गौर्यश्विन्यौ दक्षकन्ये मदिरापि हलिप्रिया ॥
4.19.6 · p. 123
अनुष्टुप्
अन्वाहार्यं भवेन्मासश्राद्धमिष्टेश्च दक्षिणा ।भागे भाग्ये भागधेयं दायादे तु पुमानयम् ॥
4.19.7 · p. 123
अनुष्टुप्
गोधायां स्त्री पुमानाखौ नकुलेऽहौ विलेशयः ।उशीरे न द्वयोः पुंसि जलाधारे जलाशयः ॥
4.19.8 · p. 123
अनुष्टुप्
भयंकरे प्रतिभयं त्रिषु भीतौ नपुंसकम् ।अपसव्यं भेद्यलिङ्गं दक्षिणप्रतिकूलयोः ॥
4.19.9 · p. 123
अनुष्टुप्