All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
सङ्कीर्णकाण्डम् · नानालिङ्गविषमाक्षराः
॥ इति क्लीबविषमाक्षराः ॥
भगवान्बुद्धविष्ण्वीशपूज्येषु भगवत्युमा ।महांस्त्रिष्वधिके पूज्ये महती कापि वल्लकी ॥
5.25.1 · p. 134
अनुष्टुप्
भोगी ग्रामाद्यधिकृते भूपतौ सुखिसर्पयोः ।भोगिन्यः स्युर्नृपस्यान्याः कामिन्यो महिषीं विना ॥
5.25.2 · p. 134
अनुष्टुप्
सरस्वती नदीभेदनद्योः स्त्री देवतागिरोः ।गोभूगङ्गासु मत्स्याक्ष्यां सरस्वांस्तु नदेऽम्बुधौ ॥
5.25.3 · p. 134
अनुष्टुप्
भवेयुरणिमादौ च भूत्यैश्वर्यविभूतयः ।द्वीपवन्तौ नदाम्भोधी द्वीपवत्यौ नदीभुवौ ॥
5.25.4 · p. 134
अनुष्टुप्
ककुदोऽस्त्री ककुत्क्लीबे द्वावेतौ नृपलक्ष्मणि ।वृषभाङ्गे प्रधाने च भेद्यलिङ्गा इतः परे ॥
5.25.5 · p. 134
अनुष्टुप्