All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · णान्ताः
॥ इति ढान्ताः ॥
मौर्वीसूदवृकोदरतन्त्वावृत्तीन्द्रियेषु रूपादौ ।सत्त्वादौ संध्यादौ त्यागादावप्रधानके च गुणः ॥
2.13.1 · p. 24
गीतिः
व्यवहारे भृतिधनयोर्मूलधने विक्रयार्हशाकादेः ।मूल्ये वराटमाने द्यूते कार्षापणे ग्लहे च पणः ॥
2.13.2 · p. 24
गीतिः
व्यापारविकलतायामुत्सवपरतन्त्रतामुहूर्तेषु ।परमाणुकालभेदे घटीषडंशे क्षणस्तथावसरे ॥
2.13.3 · p. 24
गीतिः
सैन्यभेदे समूहे च संख्यायां प्रमथे गणः ।श्रोत्रकौन्तेययोः कर्णः कोणोऽश्रौ लगुडेऽर्कजे ॥
2.13.4 · p. 24
अनुष्टुप्
वीणादिवादनोपाये वाद्यगेहैकदेशयोः ।देवेऽर्के तर्णिरर्काग्न्योर्जूर्णिरग्न्यर्चिषोर्घृणिः ॥
2.13.5 · p. 24
अनुष्टुप्
वृष्णिस्तु यादवे मेषे पाषण्डे हिमदीधितौ ।शाणः कर्षोपले माषचतुष्के करपत्रके ॥
2.13.6 · p. 24
अनुष्टुप्
प्राणो देहान्तरनिले जीवात्मपरमात्मनोः ।आयुरिन्द्रियसत्त्वेषु प्रणये कार्यमर्मणि ॥
2.13.7 · p. 24
अनुष्टुप्
भ्रूणोऽर्भके स्त्रैणगर्भे गर्भिंण्यां श्रोत्रिये द्विजे ।ऊर्णा भ्रूमध्यगावर्ते तन्तौ मेषादिलोमसु ॥
2.13.8 · p. 25
अनुष्टुप्
वेणी प्रवाहे सरितां मेलने केशबन्धने ।देवताडेऽप्यथ स्थूणा स्तम्भे च प्रतिमायसोः ॥
2.13.9 · p. 25
अनुष्टुप्
वीणा तटिच्च घोणा तु नासिका रथकर्णिका ।घृणा जुगुप्साकृपयोस्तृष्णा त्वीहापिपासयोः ॥
2.13.10 · p. 25
अनुष्टुप्
वर्णः स्वर्णकथाकुथनुतिगुणशोभायशोविशेषेषु ।गीतिक्रमे द्विजादौ शुक्लादौ चाक्षरे तु वर्णं वा ॥
2.13.11 · p. 25
गीतिः
कणा जीरकपिप्पल्योः कणो धान्यांशलेशयोः ।द्रोणः कृपीपतौ काकभेदवृश्चिकयोश्च ना ॥
2.13.12 · p. 25
अनुष्टुप्
अस्त्र्याढकचतुष्के च द्रोणी काष्ठाम्बुवाहिनी ।बाणौ दैत्यशरौ बाणा द्वयोर्नीलकुरण्टके ॥
2.13.13 · p. 25
अनुष्टुप्
तीक्ष्णं क्लीबे विषे युद्धे समुद्रलवणायसोः ।त्रिषु तिग्मे क्षते क्षारे शोणस्त्वरलुपादपे ॥
2.13.14 · p. 25
अनुष्टुप्
नदेऽग्नौ रक्ततुरगे रागे ना तद्वति त्रिषु ।चूर्णिर्गद्ये स्त्रियां चूर्णं क्षोदे क्षारान्तरेऽपि तत् ॥
2.13.15 · p. 25
अनुष्टुप्
पर्पाटके स्त्रियां रेणुर्द्वयोर्धूल्यामणुस्तु ना ।धान्यभेदे त्रिषु त्वल्पे रणोऽस्त्री युधि ना ध्वनौ ॥
2.13.16 · p. 25
अनुष्टुप्
मणिर्द्वयोरजाकण्ठस्तने रत्नेऽप्यलिञ्जरे ।मेहनाग्रे च नासा तु घ्राणं घ्राते त्वयं त्रिषु ॥
2.13.17 · p. 25
अनुष्टुप्
पार्ष्णिरुन्मत्तनार्यां स्त्री ना त्वयं गुल्फयोरधः ।पश्चाद्भागे सैन्यपृष्ठे जिष्णुस्तु त्रिषु जित्वरे ॥
2.13.18 · p. 26
अनुष्टुप्
पार्थेन्द्रयोर्ना पर्णं तु पत्रे पुंसि तु किंशुके ।श्रेणिर्द्वयोः सजातीयशिल्पिसंहतिरावलिः ॥
2.13.19 · p. 26
अनुष्टुप्
द्वयोराणिरणिश्चासौ सीमन्यक्षाग्रकीलके ।स्थाणुः पुमान्महादेवे शङ्कावस्री स्थिरे त्रिषु ॥
2.13.20 · p. 26
अनुष्टुप्
श्राणा यवाग्वां पक्वे तु त्रिषूष्णस्त्वातपोष्मणोः ।वह्नौ तु पुंसि चतुरतिग्मयोस्त्वेष वाच्यवत् ॥
2.13.21 · p. 26
अनुष्टुप्
व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामिस्रपक्षकलिनीलगुणेषु कृष्णः ।द्रव्ये त्रिषु द्रुपदजा तटिनी कणा च कृष्णाथ लोहमरिचे दुरितं च कृष्णम् ॥
2.13.22 · p. 26
वसन्ततिलका