All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · नान्ताः
॥ इति धान्ताः ॥
स्याद्वर्धमान एरण्डे शरावे भूषणेऽपि च ।अभिमानो गर्वबुद्ध्योर्हिंसाप्रणययोरपि ॥
4.14.1 · p. 120
अनुष्टुप्
प्रतियत्नस्तु संस्कारे उपग्रहणलिप्सयोः ।पारावते मयूरे च कोकिले च कलध्वनिः ॥
4.14.2 · p. 120
अनुष्टुप्
धातृस्मरावात्मयोनी मूर्खनीचौ पृथग्जनौ ।जन्मभूमावभिजनो विख्यातावन्वये च सः ॥
4.14.3 · p. 120
अनुष्टुप्
वह्निभानू चित्रभानू वह्नीन्द्वर्का विरोचनाः ।पुण्यजनः सुजने स्याद्रक्षसि यक्षेऽथ गर्जिते मेघे ॥
4.14.4 · p. 120
metre not recognised
स्तनयित्नुरनूचानः सुविनीते साङ्गवेदज्ञे ।गुञ्जायूथ्यौ शिखण्डिन्यौ सौदामिन्यप्सरःस्वपि ॥
4.14.5 · p. 120
अनुष्टुप्metre not read in every line
पिधानेऽप्याच्छादनं स्यात्कार्यहेत्वोः प्रयोजनम् ।आस्कन्दनं तिरस्कारे गतिशोषणयोर्युधि ॥
4.14.7 · p. 120
अनुष्टुप्
प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ।आधिष्ठानं पूःप्रभावचक्रेष्वध्यासनेऽपि च ॥
4.14.8 · p. 120
अनुष्टुप्
जन्मोत्प्लुत्योरुत्पतनमथाभिव्याप्तिमूर्छयोः ।सम्मूर्छनं समुत्थानमुद्यमे रोगनिर्णये ॥
4.14.9 · p. 120
अनुष्टुप्
निर्यातनं वैरशुद्धौ दाने न्यासधनार्पणे ।स्यादाकलनमाकाङ्क्षागणने ज्ञानबन्धने ॥
4.14.10 · p. 120
अनुष्टुप्
समूहे चावदानं तु वृत्तकर्मणि खण्डने ।निर्भर्त्सनमलक्तेऽपि श्रुतिदृष्ट्योर्निशामनम् ॥
4.14.11 · p. 120
अनुष्टुप्
उपासनं शराभ्यासे हिंसासेवनयोरपि ।रते कम्पे निधुवनं स्यादुद्वर्तनमुद्गमे ॥
4.14.12 · p. 120
अनुष्टुप्
वधे च प्रणिधानं तु समाधिप्रतियत्नयोः ।योन्युत्पत्योः प्रजननमथ प्रेषणदानयोः ॥
4.14.14 · p. 121
अनुष्टुप्
विसर्जनं विहननं वधवीजनवाचकम् ।अभ्याधानमभिन्यासे वह्न्यर्थे चेध्मसंग्रहे ॥
4.14.15 · p. 121
अनुष्टुप्
निर्वासनं तु हिंसायां नगरादेर्बहिष्कृतौ ।निष्ठ्यूतौ तु निरसनं संवाहनमङ्गमर्दनेऽपि स्यात् ॥
4.14.16 · p. 121
अनुष्टुप्metre not read in every line
शिल्पगृहेऽप्यावेशनमुद्वासनमपि च हिंसने प्रोक्तम् ।कात्यायनो वररुचौ मुनौ कात्यायनीत्युमा ॥
4.14.17 · p. 121
अनुष्टुप्metre not read in every line
या चार्धवृद्धा काषायवसना गतभर्तृका ।त्रिष्ववलग्नं लग्ने मध्ये क्लीबं घनाघनस्त्विन्द्रे ॥
4.14.18 · p. 121
अनुष्टुप्metre not read in every line
वार्षुकमेघे घातुकमत्तेभे च त्रिषु त्वयं सान्द्रे ।शाश्वते त्रिषु ना ब्रह्महरीशेषु सनातनः ॥
4.14.19 · p. 121
अनुष्टुप्metre not read in every line
दीप्तौ प्रद्योतनं नार्के महासेनो गुहेऽपि च ।अत्मनीनः सुते स्याले पुमानात्महिते त्रिषु ॥
4.14.20 · p. 121
अनुष्टुप्
विष्वक्सेना गन्धपल्यां ना तु विष्णावथ त्रिषु ।अभिपन्नो द्रुते ग्रस्तेऽपराद्धे दक्षिणार्तयोः ॥
4.14.21 · p. 121
अनुष्टुप्
विपन्ने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ।अवाचीनं विपर्यस्तं यच्च दक्षिणदिग्भवम् ॥
4.14.22 · p. 121
अनुष्टुप्