कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · टान्ताः

॥ इति ञान्ताः ॥

वटौ वराटन्यग्रोधौ प्रियालुवसने पटौ ।त्वष्टारौ देवशिल्प्यर्कौ नटौ नर्तकशोणकौ ॥
2.9.1 · p. 19
अनुष्टुप्
विटः स्याल्लवणे षिद्गे मूषके खदिरे गिरौ ।चटुश्चाटुश्च राजादिस्तुतौ पशुपिचण्डके ॥
2.9.2 · p. 19
अनुष्टुप्
पट्टः पेषणदृषदि व्रणादिबन्धे चतुष्पथे पीठे ।लेख्यविशेषे राजाद्यभिषेचनयोग्यपट्टिकायां च ॥
2.9.3 · p. 19
गीतिः
सृष्टिः स्वभावे निर्माणे स्यात्पुष्टिर्वृद्धिपोषयोः ।व्युष्टिः फले समृद्धौ स्याद्दृष्टिर्धीदर्शनाक्षिषु ॥
2.9.4 · p. 19
अनुष्टुप्
यष्टिर्दण्डे हारभेदे मधुकेऽप्यायुधान्तरे ।दिष्टिर्दानसुखानन्दपरिणामेष्वथो जटा ॥
2.9.5 · p. 19
अनुष्टुप्
मांस्यां मूले लग्नकचे विष्टिर्नरकपातने ।बलात्कारे च भद्राख्यकरणे कर्मवेतने ॥
2.9.6 · p. 19
अनुष्टुप्
सटा जटाकेसरयोर्घोटा बदरपूगयोः ।कोटिः प्रकर्षचापाग्रसंख्यापक्षान्तराश्रिषु ॥
2.9.7 · p. 19
अनुष्टुप्
त्रुटिः स्यात्संशये लेशे सूक्ष्मैलाकालमानयोः ।त्रोटिश्चञ्चौ कट्फले च वाद्ये काललवे तुटिः ॥
2.9.8 · p. 20
अनुष्टुप्
रेटिर्वह्नेश्च रटितं वाणी चासंयतोत्कटा ।पट्टिर्ललाटभूषायामपि लाक्षाप्रसाधने ॥
2.9.9 · p. 20
अनुष्टुप्
यागेच्छादानदेवार्चास्विष्टिः सृष्ट्यादयः स्त्रियाम् ।व्युष्टं प्रभातदिवसफलपर्युषितेष्वपि ॥
2.9.10 · p. 20
अनुष्टुप्
रिष्टं स्यादशुभक्षेमनाशनिस्त्रिंशपाप्मसु ।कूटोऽस्त्री गिरिशृङ्गे यन्त्रे राशावयोघने व्याजे ॥
2.9.11 · p. 20
अनुष्टुप्metre not read in every line
अनृते मायायामपि सीराङ्गे निश्चले च पापे च ।खेटः कफकुत्सितयोर्ग्रामे फले गुडविकारे च ॥
2.9.12 · p. 20
आर्याmetre not read in every line
श्रोण्यां भृशे कलिङ्गे गजगण्डे शवरथे शवे च कटः ।कटुस्तिक्तरसे क्षाररसे ना तद्वति त्रिषु ॥
2.9.13 · p. 20
अनुष्टुप्metre not read in every line
सुगन्धिमत्सराकार्याप्रियतीक्ष्णेष्वपि त्रिषु ।कटुः स्त्री कटुरोहिण्यां दूषणे तु नपुंसकम् ॥
2.9.14 · p. 20
अनुष्टुप्
घटः कुम्भे समाधौ च घटा तु गजसंहतौ ।घटनायां च गोष्ठ्यां च कुटस्तु घटवेश्मनोः ॥
2.9.15 · p. 20
अनुष्टुप्
कुटी तु स्त्री कुम्भदास्यामल्पवेश्मनि चापि सा ।अट्टस्त्वट्टालके पूरे भृशे शुष्के त्वयं त्रिषु ॥
2.9.16 · p. 20
अनुष्टुप्
अट्टं त्वन्नेऽथ कृष्टिः स्त्री कर्षणे कोविदे तु ना ।एकवारप्रसूता गौर्गृष्टिः स्त्री सूकरे तु ना ॥
2.9.17 · p. 21
अनुष्टुप्
दिष्टं दैवपरीमाणानन्देषु समये तु ना ।अथ त्रिषु पटुस्तीक्ष्णे नीरोगे निपुणेऽपि च ॥
2.9.18 · p. 21
अनुष्टुप्
तटौ तीरभृगू सृष्टास्त्यक्तनिश्चितनिर्मिताः ।इष्टमाशंसिते दत्ते हुतपूजितयोरपि ॥
2.9.19 · p. 21
अनुष्टुप्
म्लिष्टौ म्लानास्पष्टवाचौ व्यक्तसंफुल्लयोः स्फुटः ।
2.9.20 · p. 21