All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · यान्ताः
॥ इति मान्ताः ॥
प्रणयः स्यात्परिचये संभ्रमे प्रेमयाच्ञयोः ।विनयो नीतिशिक्षादिधर्माचारप्रशान्तिषु ॥
3.23.1 · p. 96
अनुष्टुप्
विषयो गोचरे देशे ज्ञातो यो यस्य तत्र च ।प्रलयो मरणे श्लेषे मूर्छाकल्पावसानयोः ॥
3.23.3 · p. 96
अनुष्टुप्
प्रत्ययोऽधीनविश्वासधीरन्ध्राचारहेतुषु ।ख्यातौ समाधौ शपथे चित्रगर्वौ तु विस्मयौ ॥
3.23.4 · p. 96
अनुष्टुप्
व्यवायोऽन्तर्धिरतयोरुपायः स्यादुपागतौ ।सामादावथ संस्त्यायः संनिवेशे गृहे गणे ॥
3.23.5 · p. 96
अनुष्टुप्
उदयः पूर्वशैले स्यादुन्नतावुद्गतावपि ।अत्ययो मरणे दोषे कृच्छ्रेऽतिक्रमदण्डयोः ॥
3.23.6 · p. 96
अनुष्टुप्
आशयौ स्थानतात्पर्ये कुलायः स्थाननीडयोः ।पर्यायः क्रमनिर्माणप्रकारावसरेष्वपि ॥
3.23.8 · p. 96
अनुष्टुप्
एकार्थवाचिशब्दे च पौलस्त्यौ श्रीदरावणौ ।पर्जन्यो मेघनिर्घोषे वासवे गर्जदम्बुदे ॥
3.23.9 · p. 96
अनुष्टुप्
शाण्डिल्यौ मुनिमालूरौ श्वशुर्यौ स्यालदेवरौ ।आदित्यौ रविगीर्वाणौ लौहित्यौ व्रीहिसागरौ ॥
3.23.10 · p. 96
अनुष्टुप्
स्यादाम्नायः संप्रदाये कुलेऽध्ययनवेदयोः ।ऊर्णायुरूर्णनाभेऽपि मेषे तल्लोमकम्बले ॥
3.23.11 · p. 96
अनुष्टुप्
सरण्युर्वारिदे वाते वह्नीन्द्वर्का विमन्यवः ।वायौ वसन्ते क्षी(!)पण्युर्भ्रातृव्यो भ्रातृजे रिपौ ॥
3.23.12 · p. 97
अनुष्टुप्
समयः कालसिद्धान्तप्रतिज्ञाशपथेषु च ।संकेताचारयोश्चाथ स्वाध्यायो जपवेदयोः ॥
3.23.13 · p. 97
अनुष्टुप्
विशल्या त्रिपुटीदन्तीगुडूचीलाङ्गलीषु च ।अभिख्या त्विड्यशोनामस्विन्द्रियं त्वक्षिरेतसोः ॥
3.23.14 · p. 97
अनुष्टुप्
सामर्थ्यं योग्यताशक्त्योर्हृदयं चित्तवक्षसोः ।चारुत्वमपि सौरभ्यं नेपथ्यं रङ्गभूरपि ॥
3.23.15 · p. 97
अनुष्टुप्
पुत्र्यां पुत्रेऽपि चापत्यमौचित्यं सत्ययोग्ययोः ।स्याद्ब्राह्मण्यं ब्राह्मणानां भावसंहतिकर्मसु ॥
3.23.16 · p. 97
अनुष्टुप्
स्याद्धिरण्यं हेम्नि कुप्ये वित्तमानविशेषयोः ।वराटरेतसोश्चाथ मलयः पर्वतान्तरे ॥
3.23.17 · p. 97
अनुष्टुप्
पर्वतांशेऽप्यथोद्याने मलयं मलया त्रिवृत् ।सैन्धवे तालपर्ण्यां च शैलेयं भ्रमरे पुमान् ॥
3.23.18 · p. 97
अनुष्टुप्
विजया पार्वतीतिथ्योर्विजयो जयपार्थयोः ।अभयं नलदे स्त्री तु पथ्यायां निर्भये त्रिषु ॥
3.23.19 · p. 97
अनुष्टुप्
कशेरुहेम्नोर्गाङ्गेयं गाङ्गेयो गुहभीष्मयोः ।अस्त्री कषायो निर्यासे सौरभे रसरागयोः ॥
3.23.20 · p. 97
अनुष्टुप्
क्वाथे विलेपने चापि द्रव्ये स्यादेष वाच्यवत् ।द्वितीया सहधर्मिण्यां द्वितीयं पूरणे त्रिषु ॥
3.23.21 · p. 97
अनुष्टुप्
त्रिष्वाहार्यः स्थिरे नाद्रौ नादेयी जलवेतसे ।तर्कार्यां भूमिजम्ब्वां च जपायां नागरङ्गके ॥
3.23.22 · p. 97
अनुष्टुप्
नादेयं सिन्धुलवणे त्रिषु त्वेष नदीभवे ।आतिथ्यमातिथेयार्थे न द्वयोरतिथौ पुमान् ॥
3.23.23 · p. 98
अनुष्टुप्
इन्द्रिये विषयि क्लीबं त्रिलिङ्गो विषयान्विते ।पेये त्रिषु विहायस्तु व्योम्न्यस्त्री विहगे पुमान् ॥
3.23.24 · p. 98
अनुष्टुप्
वेश्यादास्योर्भुजिष्या स्त्री प्रेष्यस्वच्छन्दयोस्त्रिषु ।तपस्या व्रतचर्यायां तपस्यः फाल्गुने पुमान् ॥
3.23.25 · p. 98
अनुष्टुप्
क्षेत्रियं क्षेत्रजतृणे गरले परदारिके ।चिकित्सार्हान्यदेहे च स्यादसाध्यगदेऽपि च ॥
3.23.26 · p. 98
अनुष्टुप्
प्रसव्यं सव्य आयत्ते प्रतिकूलानुकूलयोः ।वदान्यौ वाग्मिदातारौ जघन्यावन्त्यगर्हितौ ॥
3.23.27 · p. 98
अनुष्टुप्
कनीयाननुजेऽत्यल्पे वरीयान्सत्तमेऽत्युरौ ।साधीयान् शोभनेऽत्यर्थसाधावनुमतेऽपि च ॥
3.23.28 · p. 98
अनुष्टुप्
प्रतीक्ष्यौ प्रतिपाल्यार्च्यौ त्रिष्वेते क्षेत्रियादयः ।
3.23.29 · p. 98