All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · गान्ताः
॥ इति खान्ताः ॥
अपवर्गः क्रियामुक्त्योः क्रियासाध्यफलागमे ।उपरागः परीवादे चन्द्रसूर्यग्रहेऽपि च ॥
4.3.1 · p. 114
अनुष्टुप्
शापाक्रोशतिरस्कारेष्वभीषङ्गोऽथ रूपके ।वृकोऽपीहामृगः स्यात्तु संप्रयोगो रतेऽन्वये ॥
4.3.2 · p. 114
अनुष्टुप्