कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · शान्ताः

॥ इति वान्ताः ॥

अपदेशः पदे लक्ष्ये निमित्तव्याजयोरपि ।उपस्पर्शस्त्वाचमने स्नानस्पर्शनयोश्च सः ॥
4.23.1 · p. 127
अनुष्टुप्
अपभ्रंशो निपतने भाषाभेदापशब्दयोः ।त्रिषु प्रिये जीवितेशो नायकेऽथ प्रतिष्कशः ॥
4.23.2 · p. 127
अनुष्टुप्
द्यूते ना त्रिष्वग्रगे स्याद्वार्ताहरसहाययोः ।
4.23.3 · p. 127