कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · जान्ताः

॥ इति चान्ताः ॥

काम्भोजी माषपर्ण्यां च हिङ्गुपर्ण्यामपि स्त्रियाम् ।काम्भोजस्तुरगे सोमवल्के पुंनागपादपे ॥
3.6.1 · p. 71
अनुष्टुप्
देशेभशङ्खाः काम्भोजाः पदाजिर्मार्गयुद्धयोः ।स्वयंजाततिले कीरे क्षत्रियेऽपि च बाहुजः ॥
3.6.2 · p. 71
अनुष्टुप्
द्रोणाचार्ये वृक्षभेदागस्त्ययोः कुम्भजो मतः ।करजस्तु करञ्जाख्यद्रुमे व्याघ्रनखे नखे ॥
3.6.3 · p. 71
अनुष्टुप्
अण्डजः पतगे मीने कृकलासे भुजंगमे ।कारुजः कलहे(भे?) फेने गैरिके नागकेसरे ॥
3.6.4 · p. 71
अनुष्टुप्
स्वयंजाततिले नाकौ जलजं त्वब्जशङ्खयोः ।भूमिजोऽङ्गारके दैत्यभेदे सीता तु भूमिजा ॥
3.6.5 · p. 71
अनुष्टुप्
शिलाजत्वभ्रकं लोहं गिरिजं गिरिजाप्युमा ।क्लीबेऽब्जे वनजं मुद्गपर्ण्यां स्त्री कुञ्जरे पुमान् ॥
3.6.6 · p. 71
अनुष्टुप्
अङ्गजो मन्मथे पुत्रे स क्लीबे रोम्णि शोणिते ।वलजं गोपुरे क्षेत्रे सस्यसंगरयोरपि ॥
3.6.7 · p. 72
अनुष्टुप्
चारुस्त्री भूश्च वलजा परञ्जस्तैलयन्त्रके ।करवाले च फेने च परञ्जं छुरिकाफलम् ॥
3.6.8 · p. 72
अनुष्टुप्
सहजो ना निसर्गेऽपि सामजः कुञ्जरेऽपि ना ।यौगिकार्थेष्वमी वाच्यलिङ्गाः स्युर्बाहुजादयः ॥
3.6.9 · p. 72
अनुष्टुप्