All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · हान्ताः
॥ इति सान्ताः ॥
गवां स्कन्धे गवां श्वासे वाहने पवने वहः ।अर्काद्यादानोपरागपूतनाद्याग्रहा ग्रहाः ॥
2.31.1 · p. 59
अनुष्टुप्
अविद्यामूर्छयोर्मोहः स्यादहिर्वृत्रसर्पयोः ।प्रोहः प्रकृष्टतर्के च कुञ्जराङ्घ्रेश्च पर्वणि ॥
2.31.2 · p. 59
अनुष्टुप्
अब्विशेषे गुणे स्नेहस्तैलसौहार्दयोश्च सः ।व्यूहः स्याद्बलविन्यासे वृन्देऽपीहोद्यमेच्छयोः ॥
2.31.3 · p. 59
अनुष्टुप्
कुहूः स्त्री कोकिलालापे विनष्टेन्दुतिथावपि ।लोहः शस्त्रे च कांस्यादिसर्वतैजसवस्तुनि ॥
2.31.4 · p. 60
अनुष्टुप्
सहा कुमारीभूम्योः स्त्री साकमर्थे सहाव्ययम् ।सिंहपुच्छीकन्दरयोर्गुहा स्त्री षण्मुखे तु ना ॥
2.31.6 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कान्त्युत्सवौ तु महसी पुमांश्चेन्मह उत्सवे ।गृहं गृहाश्च पुंभूम्नि द्वाविमौ गेहभार्ययोः ॥
2.31.7 · p. 60
अनुष्टुप्
सिंहो मृगेन्द्रे राशौ च श्रेष्ठे राजादिकात्परः ।सिंही सिंहस्त्रियामाटरूषे राहोश्च मातरि ॥
2.31.8 · p. 60
अनुष्टुप्
बाहा भुजे स्त्री बाहो ना यानेऽश्वे वृषभेऽपि च ।बर्हिर्नाग्नौ कुशे क्लीबे त्रिष्वर्च्येऽर्हा जिने तु ना ॥
2.31.9 · p. 60
अनुष्टुप्
बहुः स्याद्विपुले त्र्यादिसंख्यायां च त्रिलिङ्गकः ।
2.31.10 · p. 60