All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · डान्ताः
॥ इति ठान्ताः ॥
गण्डो व्रणे कपोले पिटके गर्वे मृगान्तरे योगे ।मूलादिदुष्टभागे हयभूषणबुद्बुदेऽप्यपाये च ॥
2.11.1 · p. 22
गीतिः
दण्डी द्वाःस्थे यमे पिण्डिस्तगरे तिलकल्कके ।चोडौ कञ्चुलिकादेशौ व्याडौ हिंस्रपशूरगौ ॥
2.11.2 · p. 22
अनुष्टुप्
पीडा व्यथाकरुणयोः शिरोमाल्यापमर्दयोः ।नाडी नालघटीदूर्वाव्रणेष्वङ्गसिरासु च ॥
2.11.3 · p. 22
अनुष्टुप्
इडा वाग्गोद्युभूनाड्य इडा स्याद्बुधपत्न्यपि ।शुण्डा करिकरे मध्ये नलिन्यां वारयोषिति ॥
2.11.4 · p. 22
अनुष्टुप्
गतभर्तृकनारी तु रण्डा मूषकपर्ण्यपि ।अण्डं मुष्के विहङ्गादिकोशे भाण्डं तु मार्जने ॥
2.11.5 · p. 22
अनुष्टुप्
नदीपात्रे वणिङ्मूलधने भूषाश्वभूषयोः ।पाण्डुर्नृपे गदे श्वेतगुणे ना गुणिनि त्रिषु ॥
2.11.6 · p. 22
अनुष्टुप्
मुण्डो दैत्यान्तरे राहौ मूर्ध्नि त्रिषु तु मुण्डिते ।मन्त्रविख्यातयोः शौण्डस्त्रिषु पुंसि तु कुक्कुटे ॥
2.11.7 · p. 22
अनुष्टुप्
शौण्डी जलदपङ्क्तौ च पिप्पलीचव्ययोरपि ।खण्डमस्त्री मणेर्दोषे शकलेक्षुविकारयोः ॥
2.11.8 · p. 22
अनुष्टुप्
गुडा स्नुहीगुलिकयोर्गुडः पिण्डेक्षुपाकयोः ।जडः स्तब्धे बुद्धिहीने हिमग्रस्तेऽपि वाच्यवत् ॥
2.11.9 · p. 22
अनुष्टुप्
शूकशिम्ब्यां जडा नीडमस्त्री स्थानकुलाययोः ।क्रोडो ना सूकरे क्लीबमुत्सङ्गे वक्षसि द्वयोः ॥
2.11.10 · p. 23
अनुष्टुप्
क्ष्वेडा वेणुशलाकायां सिंहनादेऽपि च स्त्रियाम् ।अयं तु पुंसि गरले ध्वनौ रक्तार्कपादपे ॥
2.11.11 · p. 23
अनुष्टुप्
बाणावसरग्रन्थिस्तम्बरहोवाजिवारिवर्गेषु ।स्कन्धे च भूरुहाणां गर्वे नाले बले च काण्डोऽस्त्री ॥
2.11.12 · p. 23
गीतिः
चण्डो दैत्यविशेषे यमदासे त्रिषु तु तीव्रकोपनयोः ।चण्डी गौर्यथ मस्तुनि मण्डमसौ सारपिच्छयोः पुंसि ॥
2.11.13 · p. 23
गीतिः
कुण्डं पिठरे तोयाधारविशेषे च वह्निगर्ते च ।कुण्डो जाराज्जातः सभर्तृकायां कमण्डलुः कुण्डी ॥
2.11.14 · p. 23
गीतिः
दण्डोऽस्त्री दमहिंसासेनालगुडेषु शासने राज्ञाम् ।दण्डो मानविशेषे व्यूहे रविपारिपार्श्वके पुंसि ॥
2.11.15 · p. 23
गीतिः
पिण्डो वपुषि निवापे गोलेऽप्यथ पिण्डमयसि गर्भशिशौ ।आजीवने गडुस्तु त्रिषु कुब्जे पुंसि पृष्ठगुडे ॥
2.11.16 · p. 23
आर्या