कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · ठान्ताः

॥ इति टान्ताः ॥

कण्ठो वाचकशब्दे स्यात्संनिधाने गले ध्वनौ ।निष्ठा तु नाशे निष्पत्तावन्ते तात्पर्ययाच्ञयोः ॥
2.10.1 · p. 21
अनुष्टुप्
पृष्ठं चरममात्रे च वपुषश्चरमे च तत् ।ज्येष्ठा त्वलक्ष्मीनक्षत्रगृहगोधासु मासि ना ॥
2.10.2 · p. 21
अनुष्टुप्
अयं वृद्धतमश्रेष्ठपूर्वजेषु त्रिलिङ्गकः ।सभासंलापयोर्गोष्ठी गोष्ठं गोस्थानके भवेत् ॥
2.10.3 · p. 21
अनुष्टुप्
श्रेष्ठौ ना तु नदे वर्ये त्रिषु काष्ठं च दारुणि ।काष्ठा दर्व्यां कालभेदे प्रकर्षे दिशि सीम्नि च ॥
2.10.4 · p. 21
अनुष्टुप्
कुक्षेरन्तर्गृहस्यान्तः कुसूले कोष्ठमस्त्रियाम् ।पाठो ना पठने पाठा विद्धकर्ण्यामथौषधे ॥
2.10.5 · p. 21
अनुष्टुप्
गदे च कुष्ठमस्त्री स्यात्प्रेष्ठस्रिष्वग्रगे वरे ।कुण्ठः स्यादकृतोद्वाहे खर्वेऽप्यनिशितायुधे ॥
2.10.6 · p. 21
अनुष्टुप्