All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · धान्ताः
॥ इति दान्ताः ॥
न्यग्रोधौ तु वटव्यामाबुत्सेधौ वपुरुन्नती ।प्रणिधी प्रार्थनाचारौ रथाङ्गं छद्म चोपधिः ॥
3.16.2 · p. 87
अनुष्टुप्
अवधाने परिच्छेदे सीम्नि काले बिलेऽवधिः ।उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृतावपि ॥
3.16.3 · p. 87
अनुष्टुप्
व्याजे विशेषणे चाथ प्रत्यक्षेऽपि च संनिधिः ।समाधिर्ध्याननीवाकनियमेषु समर्थने ॥
3.16.4 · p. 87
अनुष्टुप्
संरोधश्च निरोधश्च द्वावेतौ नाशरोधयोः ।संसिद्धिः स्त्री मदोग्रायां सम्यक्सिद्धिस्वभावयोः ॥
3.16.6 · p. 87
अनुष्टुप्
उपधा सुपरीक्षायामुपधानेऽथ मागधः ।वैतालिके वैश्यतश्च क्षत्रियायां समुद्भवे ॥
3.16.7 · p. 87
अनुष्टुप्
मागधी पिप्पलीयूथ्योस्रिष्वयं मगधोद्भवे ।सुगन्धिस्त्रिष्विष्टगन्धे क्लीबे तु हरिवालुके ॥
3.16.8 · p. 87
अनुष्टुप्
अगाधमतलस्पर्शे त्रिषु क्लीबे त्वयं बिले ।आनद्धं मुरजादौ स्यात्त्रिष्वाबद्धेऽथ वाच्यवत् ॥
3.16.9 · p. 87
अनुष्टुप्
विस्रब्धौ शान्तविश्वस्तौ संनद्धौ सज्जवर्मितौ ।आविद्धौ कुटिलक्षिप्तौ प्रसिद्धौ ख्यातभूषितौ ॥
3.16.10 · p. 87
अनुष्टुप्
दुर्विधौ दुर्गतखलौ प्रबुद्धौ प्राज्ञजाग्रतौ ।
3.16.11 · p. 87