All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
अव्ययकाण्डः · एकाक्षरनानार्थाव्ययाः
इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायां संकीर्णशब्दकाण्डः पूर्णो नानार्थरत्नमालायाम् ।
॥ अथ नानार्थरत्नमालायामव्ययकाण्डः ॥
अ स्यान्निषेधेऽप्यल्पार्थेऽप्यास्तु संतापकोपयोः ।आङीषदर्थेऽभिव्याप्तौ क्रियायोगे च सीम्नि च ॥
6.1.1 · p. 136
अनुष्टुप्
आ प्रगृह्यः स्मृतौ वाक्ये चाक्षेपेऽद्भुतहर्षयोः ।इ चित्रखेदकोपोक्तिष्वी कोपे दुःखभावने ॥
6.1.2 · p. 136
अनुष्टुप्
उ संबुद्धौ क्रुधि तपस्यू वाक्यारम्भरक्षयोः ।ऋकारश्चापि ॠकारो द्वावेतौ वाक्यकृत्स्नयोः ॥
6.1.3 · p. 136
अनुष्टुप्
ए दुःखभावने कोपे प्रत्यक्षे संनिधावपि ।स्मृत्याह्वानामन्त्रणार्थेष्वै तु स्मृत्यादिषु त्रिषु ॥
6.1.4 · p. 136
अनुष्टुप्
ओंकारः स्यादनुमतौ परमात्मन्यनुक्रमे ।ओऔशब्दावुभौ स्यातां संबुद्ध्याह्वानयोरपि ॥
6.1.5 · p. 136
अनुष्टुप्
निर्भर्त्सने कुत्सने धिङ्नि न्यग्भावनिकामयोः ।नञीषदर्थे चाभावे तद्विरुद्धतदन्ययोः ॥
6.1.7 · p. 136
अनुष्टुप्
प्रश्ने विकल्पे नु स्विच्च निषेधे निश्चये च निः ।स्म निषेधे स्मृतौ वृत्ते प्र प्राधर्म्यप्रकर्षयोः ॥
6.1.8 · p. 136
अनुष्टुप्
वै संबुद्धावनुनये वाक्यारम्भप्रसिद्धयोः ।वि निषेधे पृथग्भावे वा विकल्पोपमानयोः ॥
6.1.9 · p. 136
अनुष्टुप्
स्वर्नाके परलोके च शं कल्याणे सुखेऽपि च ।समभेदे समीचीने सु स्याच्छोभनपूजयोः ॥
6.1.10 · p. 137
अनुष्टुप्
ह संबुद्धौ प्रसिद्धौ च हा विषादशुगार्तिषु ।हि हिंशब्दाववधृतौ हेतौ चाद्यो विशेषणे ॥
6.1.11 · p. 137
अनुष्टुप्
हि विस्मये विषादे च हुं संप्रश्नवितर्कयोः ।हूं भर्त्सनामन्त्रणयोर्हू स्याद्विस्मयहर्षयोः ॥
6.1.12 · p. 137
अनुष्टुप्
हे है व्यस्तौ समस्तौ च हूतिसंबोधनार्थयोः ।हो हौ तथैव तु हि च स्माह वै पादपूरणे ॥
6.1.13 · p. 137
अनुष्टुप्