All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · तान्ताः
॥ इति णान्ताः ॥
रसादयः सप्त कफादयस्रयो भूतानि पञ्च स्वगुणाश्च गैरिकम् ।शिलाविकारेन्द्रियशब्दयोनयो लोहं स्वभावः कनकं च धातवः ॥
2.14.1 · p. 26
upajati 12
केतुर्ग्रहे ध्वजे चिह्ने किरणोत्पातवह्निषु ।मर्त्यापराधयोर्मन्तुः कन्तुः कामकुसूलयोः ॥
2.14.2 · p. 26
अनुष्टुप्
क्रतुर्मुन्यन्तरे यज्ञे हन्तुर्मृत्यौ महागदे ।आलिप्रकारयोः सेतुर्हेतुः कारणकर्मणोः ॥
2.14.3 · p. 26
अनुष्टुप्
तातोऽनुकम्प्ये पितरि ग्रीष्मादौ स्त्रीरजरस्यृतुः ।गातुः पुंस्कोकिले भृङ्गे यन्ता हस्तिपसूतयोः ॥
2.14.4 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्षत्ता स्यात्सारथौ द्वाःस्थे शूद्रतः क्षत्रियासुते ।मूतमातञ्चनद्रव्ये तृणैर्व्रीह्यादिबन्धने ॥
2.14.5 · p. 26
अनुष्टुप्
दन्तोऽद्रिकटके कुञ्जे रदनेऽप्युन्नतोपले ।हस्तः करे विस्तृतके प्रकोष्ठेऽप्युडुशुण्डयोः ॥
2.14.6 · p. 27
अनुष्टुप्
कचात्परः कलापार्थः पोतः शिशुवहित्रयोः ।सीता सस्ये नभोनद्यां जानक्यां लाङ्गलाध्वनि ॥
2.14.7 · p. 27
अनुष्टुप्
लता कस्तूरिकाशाखादूर्वावल्लीप्रियङ्गुषु ।पिपीलिकायां माधव्यां ज्योतिष्मत्यूर्णनाभयोः ॥
2.14.8 · p. 27
अनुष्टुप्
आर्तिः पीडाधनुष्कोट्योर्मूर्तिः काठिन्यकाययोः ।कीर्तिः प्रसादे यशसि कर्दमे विस्तृतावपि ॥
2.14.9 · p. 27
अनुष्टुप्
शान्तिः कल्याणशमयोः कान्तिः शोभावरेण्ययोः ।छन्दोऽपि दशमं पङ्क्तिर्भ्रान्तिर्मिथ्यामतावपि ॥
2.14.11 · p. 27
अनुष्टुप्
न्याययोजनयोर्युक्तिर्भक्तिः स्याद्भागसेवयोः ।शक्तिः कासूप्रभुत्वादिबलदुर्गादिदेवताः ॥
2.14.12 · p. 27
अनुष्टुप्
शुक्तिः कपालशकलं दुर्नामा नयनामयः ।मुक्तास्फोटो हयावर्तः शङ्खः शङ्खनखो नखी ॥
2.14.13 · p. 27
अनुष्टुप्
कृत्तिश्चर्मणि भूर्जे च कर्तने कृत्तिकासु च ।गुप्तिः स्याद्भूव्यूदासेऽपि कारावेश्मनि रक्षणे ॥
2.14.14 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्यू (wrong syllable)
आप्तिः संबन्धलाभौ द्वौ प्राप्तिस्तावुदयेऽपि च ।भित्तिः कुड्ये भेदने स्यादवकाशप्रकाशयोः ॥
2.14.15 · p. 27
अनुष्टुप्
वर्तनं जीवनं टीका कैशिक्याद्याश्च वृत्तयः ।वित्तिर्विचारसद्भावज्ञानलाभेष्वथो रतिः ॥
2.14.16 · p. 28
अनुष्टुप्
रते कामप्रियाप्रीत्योः सृतिस्तु गतिमार्गयोः ।जातिश्छन्दो जन्म गोत्रं स्वव्याहृतिकरोत्तरम् ॥
2.14.17 · p. 28
अनुष्टुप्
सामान्यं मालती चाथ सातिर्दानावसानयोः ।मितिर्माने परिच्छेदे श्रुतिराम्नायवार्तयोः ॥
2.14.18 · p. 28
अनुष्टुप्
कर्णेऽप्याकर्णने चाथ धर्मशास्त्रेऽपि च स्मृतिः ।धृतिर्योगान्तरे धैर्ये धारणे प्रीतिसौख्ययोः ॥
2.14.19 · p. 28
अनुष्टुप्
गीतिर्वृत्तान्तरे गाने नीतिः स्यात्प्रापणे नये ।ईतिः स्यादतिवृष्ट्यादिषट्के डिम्भप्रवासयोः ॥
2.14.20 · p. 28
अनुष्टुप्
चितिश्चितास्तोमधीषु भृतिर्भरणमूल्ययोः ।गतिस्तु गमने मार्गे दशायां बुद्ध्युपाययोः ॥
2.14.21 · p. 28
अनुष्टुप्
भूतिर्मातङ्गशृङ्गारजन्मसंपत्तिभस्मसु ।सीवने संततौ स्यूतिरूतिः स्यूतौ च रक्षणे ॥
2.14.22 · p. 28
अनुष्टुप्
भीतिः कम्पे भये प्रीतिः प्रेम्णि योगान्तरे मुदि ।क्षितिः क्षयावासभूषु हेतिर्ज्वालायुधांशुषु ॥
2.14.23 · p. 28
अनुष्टुप्
रीतिः स्यन्दे लोहकिट्टे बैदर्भ्याद्यारकूटयोः ।मर्यादायां प्रचारेऽथ खण्डने दैत्यमातरि ॥
2.14.24 · p. 28
अनुष्टुप्
दितिः कृतिस्तु यत्ने च वर्गाख्यगणितेऽपि ना ।मतिरिच्छाधिषणयोः स्थानमर्यादयोः स्थितिः ॥
2.14.25 · p. 28
अनुष्टुप्
सती दक्षसुतासाध्व्योस्त्रेता त्वग्नित्रये युगे ॥
2.14.26 · p. 28
वृन्तं पयोधराग्रेऽपि स्याच्च प्रसवबन्धने ।ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु ॥
2.14.27 · p. 29
अनुष्टुप्
स्रोतोऽम्बुनिर्गमे द्वारे प्रवाहेन्द्रिययोर्जले ।रेतस्तु सलिले शुक्ले स्वान्तं गह्वरचित्तयोः ॥
2.14.28 · p. 29
अनुष्टुप्
स्त्रियां वीतिर्गतावग्नेः प्रभायां घोटके तु ना ।पत्तिः पदातौ ना स्त्री तु गतिसेनाविशेषयोः ॥
2.14.29 · p. 29
अनुष्टुप्
यतिर्भिक्षौ पुमान्स्त्री तु संयमे श्लोकविश्रमे ।अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे ॥
2.14.30 · p. 29
अनुष्टुप्
वास्तुरस्त्री गृहं सीमा सुरुङ्गा गृहभूः पुरी ।अनुक्तलिङ्गेष्वर्थेषु वाच्यलिङ्गत्वमाघृतात् ॥
2.14.31 · p. 29
अनुष्टुप्
ब्रह्माण्याद्या अकाराद्याः प्रसूर्गौरी च मातरः ।स्त्रियां माता मापके ना धाता धर्तरि ना विधौ ॥
2.14.32 · p. 29
अनुष्टुप्
शास्ता च शासके ना तु बुद्धे वप्ता तु वापके ।पुमानयं स्यात्पितरि शीतावलसशीतलौ ॥
2.14.33 · p. 29
अनुष्टुप्
शीतं क्लीबे शैत्यगुणे शेलुवेतसयोः पुमान् ।वृत्तिमन्नीरुजोर्वार्तं क्लीबे त्वारोग्यफल्गुनोः ॥
2.14.34 · p. 29
अनुष्टुप्
स्त्रियामुदन्ते वार्ताके कृष्यादौ वर्तनेऽपि च ।श्वेतो वलर्क्षे क्लीबे तु रूप्ये ना द्वीपवर्णयोः ॥
2.14.35 · p. 29
अनुष्टुप्
कृती कृतार्थविदुषोः शितिर्धवलनीलयोः ।स्वामिपोषकयोर्भर्ता वक्ता पण्डितवाग्मिनोः ॥
2.14.36 · p. 29
अनुष्टुप्
पूतं पवित्रे वस्त्रादिशोधिते बहुलीकृते ।युतौ युक्तपृथग्भूतौ मतौ सम्मतपूजितौ ॥
2.14.37 · p. 29
अनुष्टुप्
मितौ ज्ञातपरिच्छिन्नावेतावागतकर्बुरौ ।यतौ तु बद्धनियतौ वक्रबन्धुरयोर्नतम् ॥
2.14.38 · p. 30
अनुष्टुप्
गतिहीनप्रतिज्ञातनिश्चितोर्ध्वज्ञुषु स्थितम् ।अवाप्तन्याय्ययोः प्राप्तमाप्तः स्यात्सभ्यलब्धयोः ॥
2.14.39 · p. 30
अनुष्टुप्
गूढरक्षितयोर्गुप्तं लिप्तं भक्षितदिग्धयोः ।स्थापिते प्रेरिते क्षिप्तं हितं प्रहितपथ्ययोः ॥
2.14.40 · p. 30
अनुष्टुप्
शुक्ताः पूत्यम्लपरुषा मृतं स्याद्याचितेऽपि च ।न्याय्येऽपि युक्तं ग्रस्तं तु लुप्तवर्णपदेऽपि च ॥
2.14.41 · p. 30
अनुष्टुप्
इतं गतं च ज्ञातेऽपि धुतं धूतं च कम्पिते ।त्यक्तेऽप्यथ श्रुतं क्लीबे शास्रावधृतयोरपि ॥
2.14.42 · p. 30
अनुष्टुप्
क्लीबे शातं शितं चापि सुखे च निशिते कृशे ।श्वेते बद्धे सितं शर्करायां स्त्री ना गुणे कवौ ॥
2.14.43 · p. 30
अनुष्टुप्
ततं व्याप्ते विस्तृते च वीणादौ तु नपुंसकम् ।क्लीबे कृतं युगेऽपि स्यात्फलपर्याप्तयोरपि ॥
2.14.44 · p. 30
अनुष्टुप्
द्रुतं विलीनावदीर्णवेगेष्वेष तु न द्वयोः ।शीघ्रे शीघ्रगतौ चाथ भवेदवितथेऽप्यृतम् ॥
2.14.45 · p. 30
अनुष्टुप्
शिलोञ्छसत्यसलिलसुशीलेषु तु न द्वयोः ।प्लुतं त्रिमात्रकेऽप्यश्वगतौ तु स्यान्नपुंसकम् ॥
2.14.46 · p. 30
अनुष्टुप्
मृते नारकसत्वे च प्रेतो भूतान्तरे तु ना ।भूतं न्याये समे प्राप्ते यथार्थातीतयोरपि ॥
2.14.47 · p. 30
अनुष्टुप्
क्लीबे त्वयं पिशाचादौ भूम्यादौ जन्तुसत्ययोः ।उत्पन्नभूतयोर्जातं बृन्दजात्योस्तु न द्वयोः ॥
2.14.48 · p. 31
अनुष्टुप्
पीतं पीते हरिद्राभे गौरवर्णे तु पुंस्ययम् ।पीता हरिद्रा पातस्तु रक्षिते पतने तु ना ॥
2.14.49 · p. 31
अनुष्टुप्
वीतं शान्ते दुर्गजाश्वे क्लीबे त्वङ्कुशकर्मणि ।सुतस्त्वभिषुते पुत्र्यां सुता ना त्वात्मजे नृपे ॥
2.14.50 · p. 31
अनुष्टुप्
प्रसूतेरितयोः सूतः स तु ना तक्ष्णि सारथौ ।क्षत्राद्विप्रासुते व्यासशिष्ये पारदबन्दिनोः ॥
2.14.51 · p. 31
अनुष्टुप्
सुप्तेऽस्तं पश्चिमाद्रौ तु पुंसि शस्तं तु विश्रुते ।क्लीबे क्षेमेऽथ भक्तः स्यात्तत्परेऽन्ने तु न द्वयोः ॥
2.14.52 · p. 31
अनुष्टुप्
वृत्तं स्याद्वर्तुलातीतदृढेष्वथ नपुंसकम् ।स्वरूपे चरिते पद्ये जीवने वर्तनेऽपि च ॥
2.14.53 · p. 31
अनुष्टुप्
उक्तं प्रोक्ते न द्वयोस्तु छन्दोभेदे च भाषणे ।व्यक्तं स्पष्टे ना तु बुधे तिक्तस्तु रसभेदवान् ॥
2.14.54 · p. 31
अनुष्टुप्
तिक्ता स्त्री कटुरोहिण्यां सुगन्धरसयोस्तु ना ।रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहितेऽपि च ॥
2.14.55 · p. 31
अनुष्टुप्
वर्णे तु ना कुङ्कुमासृक्ताम्रेषु त्वेष न द्वयोः ।परित्यक्तेऽपि मुक्तः स्यान्मुक्ता मुक्ताफले स्त्रियाम् ॥
2.14.56 · p. 31
अनुष्टुप्
कान्तं चारौ स्त्री तु योषित्प्रियङ्गावुपलेऽपि ना ।क्लीबे रतं गुह्यरत्योः क्लीबमाज्याम्बुनोर्घृतम् ॥
2.14.57 · p. 31
अनुष्टुप्
पूतादीनां त्रिलिङ्गत्वं निष्ठा चेत्कर्तृकर्मणोः ।भावे चेत्त्क्लीब एवात्र सर्वतन्त्रेष्वयं विधिः ॥
2.14.58 · p. 31
अनुष्टुप्