All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · दान्ताः
॥ इति थान्ताः ॥
चक्रपादौ रथगजौ वह्नीन्द्वर्कास्तमोनुदः ।कुरुविन्दाः पद्मरागहिङ्गुलादर्शमुस्तकाः ॥
4.12.1 · p. 119
अनुष्टुप्
अभिष्यन्दो नेत्ररोगेऽप्यभिमर्दो रणेऽपि च ।अजमोदा तूग्रगन्धा निर्यासः शाल्मलेरपि ॥
4.12.3 · p. 119
अनुष्टुप्
भवेत्कोकनदं रक्तपद्मे रक्तोत्पलेऽप्यथ ।शरभे ना हेम्नि शारिफलकेऽष्टापदोऽस्त्रियाम् ॥
4.12.4 · p. 119
अनुष्टुप्
गङ्गा विष्णुपदी क्लीबे त्वयं व्योमसमुद्रयोः ।अथ प्रगल्भविदुषोर्वाच्यलिङ्गो विशारदः ॥
4.12.5 · p. 119
अनुष्टुप्