कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

एकाक्षरकाण्डः

॥ एकाक्षरकाण्डः ॥

अकारो ब्रह्मविष्ण्वीशकमठेष्वगणे रणे ।गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्घ्रावुमेज्ययोः ॥
1.1 · p. 2
अनुष्टुप्
आकारस्तु घटे भावे परितापे पितामहे ।इकारः फणिरत्नार्चिःष्वग्रतोऽर्थगुहार्थयोः ॥
1.2 · p. 2
अनुष्टुप्
हरे करेणौ कक्ष्यान्ते निशाकरकरे स्मरे ।ईकारोऽब्जदले लक्ष्म्यां वाण्यां कमलकेसरे ॥
1.3 · p. 2
अनुष्टुप्
रशनायां शक्रचापे बाणे फणिनि कन्दरे ।उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरौ ॥
1.4 · p. 3
अनुष्टुप्
तापसे व्रतचर्यायां मेघे च सरिदन्तरे ।ऊकारः पुरुषे चन्द्रे राजपुत्रे गजे सुरे ॥
1.5 · p. 3
अनुष्टुप्
प्राङ्गणोपमयोः पूर्णकुम्भे वणिजि रक्षणे ।ऋकारः कुञ्जरे शैले धीभेदे देवमातरि ॥
1.6 · p. 3
अनुष्टुप्
भावे देवे रिपौ नद्यां सुरायां विवरे दिवि ।ॠक्रारश्चिकुरे सर्पदृष्ट्या विगतसंपदि ॥
1.7 · p. 3
अनुष्टुप्
हिमपद्मादितिस्वर्गधनभूषाभुजाम्बुषु ।लृकारो दन्तिनां दन्ते कुलीरकपिदन्तयोः ॥
1.8 · p. 3
अनुष्टुप्
स्वर्गादित्योर्लिप्तगात्रे गतनप्तरि वक्षसि ।लॄकारः कृकलासेऽद्रावङ्गेऽक्ष्णि मकरे सुरे ॥
1.9 · p. 3
अनुष्टुप्
लीलागतौ लोचनास्थ्नि नागमातरि मातरि ।एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ ॥
1.10 · p. 3
अनुष्टुप्
व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे ।ऐकारो दिङ्मुखे हस्ते हरेऽद्रिशिखरे त्वचि ॥
1.11 · p. 3
अनुष्टुप्
ओकारः पद्मकुड्याम्बुश्रीदमेघेन्दुयोनिषु ।शक्रे जीवे विरिञ्चौ स्यादौकारस्त्वम्बिकासुते ॥
1.12 · p. 3
अनुष्टुप्
विशुद्धाङ्गेन्दुकलयोरनन्ते सिद्धपुष्पके ।अंशब्दो वक्रवाक्येऽतिदीर्धेऽञ्जलिनियोगयोः ॥
1.13 · p. 3
अनुष्टुप्
सप्तस्वरान्तमाने च परंज्योतिषि च स्मृतः ।अः शिखायां सिद्धमन्त्रे प्रग्रहेऽर्करथार्वणि ॥
1.14 · p. 4
अनुष्टुप्
चक्रे कुक्कुटमूर्ध्नीन्दुबिम्बे ब्रह्मेशविष्णुषु ।को ब्रह्मात्मानिलार्काग्निचित्तधीयमकेकिषु ॥
1.15 · p. 4
अनुष्टुप्
विष्णावाहतशब्देऽब्धौ सितवर्णे वसौ द्युतौ ।कं शिरोऽम्बुसुखे क्लीबं तत्रैव च कमव्ययम् ॥
1.16 · p. 4
अनुष्टुप्
किं प्रश्नाक्षेपकुत्सासु वितर्के च त्रिलिङ्गकम् ।किमव्ययं च कुत्सायां विकल्पप्रश्नयोरपि ॥
1.17 · p. 4
अनुष्टुप्
कुः स्त्री भुवि कु पापेऽल्पे कुत्सायां वारणेऽव्ययम् ।खः पुमान्गरुडे खड्गे स्वर्गे शान्तरसे कुणौ ॥
1.18 · p. 4
अनुष्टुप्
खमिन्द्रियसुखव्योमनक्षत्रक्षेत्रपत्तने ।कृपाफलकयोः शून्ये बिन्दौ संदेशरन्ध्रयोः ॥
1.19 · p. 4
अनुष्टुप्
गं गीते गा च गाथायां गो गन्धर्वगणेशयोः ।गौर्नागेऽर्के वृषे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम् ॥
1.20 · p. 4
अनुष्टुप्
द्वयोस्तु रश्मिदृग्बाणस्वर्गवज्राम्बुलोमसु ।मेघे निदाघे किङ्किण्यां घण्टायां घट्टने च घः ॥
1.21 · p. 4
अनुष्टुप्
घं वाद्यामृतयोर्घा भूर्वार्ता घोरे तु घस्रिषु ।ङं क्लीबमञ्जने ना तु भैरवे विषये जने ॥
1.22 · p. 4
अनुष्टुप्
चस्तुरुष्के स्वरे चोरे चकोरे चन्द्रमस्यपि ।चा स्त्री शोभा शोणिते तु चं क्लीबे विमले त्रिषु ॥
1.23 · p. 4
अनुष्टुप्
स्याल्लिप्साच्छादनाब्देषु छं क्लीबे संवृतौ पुमान् ।त्रिष्वयं निर्मले नित्ये मलिने भेदकेऽपि च ॥
1.24 · p. 5
अनुष्टुप्
जो जवे विजये मेरौ शब्दे जेतरि मत्सरे ।जा स्त्रियां देववाहिन्यां योनिसागरवेलयोः ॥
1.25 · p. 5
अनुष्टुप्
जं कटीभूषणे पत्न्यां तेजस्यम्बुनि जन्मनि ।जुः कीर्त्यां संगरे जूर्ना जीवे व्योमपिशाचयोः ॥
1.26 · p. 5
अनुष्टुप्
जूः स्त्री वाण्यां झशब्दस्तु पुमान्धातरि हंसके ।प्रतापे भ्रमरे नष्टे चोरे झञ्झानिले मदे ॥
1.27 · p. 5
अनुष्टुप्
ञो व्यूहे विषये गर्वे लेपे मूर्ध्नि खरध्वनौ ।त्रिषूत्ताने मूढरूपे क्लीबे तु भयपद्ययोः ॥
1.28 · p. 5
अनुष्टुप्
ज्ञः प्राज्ञे त्रिषु ना चन्द्रसूनावात्मनि वेधसि ।टः पुमान् करटे धूमे चापेऽर्ककिरणे ध्वनौ ॥
1.29 · p. 5
अनुष्टुप्
कवाटावर्तयोः सूनौ भूम्यावृत्त्योस्तु टा स्त्रियाम् ।ठः शंकरे बृहद्ध्वाने ठं क्लीबे चन्द्रमण्डले ॥
1.30 · p. 5
अनुष्टुप्
स्तम्भने शासने चाथ त्रिषु शून्ये शठे दृढे ।डः पुमान्विषये शंभौ हासे त्रासे क्षये ध्वनौ ॥
1.31 · p. 5
अनुष्टुप्
शङ्खध्वनौ रौद्ररसे व्रीडावाचोस्तु डा स्त्रियाम् ।डं क्लीबे डामरे दुर्गे वटे डमरुकेऽपि च ॥
1.32 · p. 5
अनुष्टुप्
आन्दोलने च त्रिषु तु डशब्दो गायके जडे ।ढः पिशाचे भये काले रागे पान्थे ध्वनौ च ना ॥
1.33 · p. 6
अनुष्टुप्
ढक्कायां तु स्त्रियां क्लीबे ज्ञाने तूर्यमुखेऽपि ढम् ।त्रिष्वयं निर्गुणे गूढे सौम्ये सव्यापसव्ययोः ॥
1.34 · p. 6
अनुष्टुप्
णशब्दस्तु पुमाञ्जारे भैरवे कण्टके ध्वनौ ।णा स्त्रियां रजनीशय्याधेनुनासाकृपासु च ॥
1.35 · p. 6
अनुष्टुप्
णं सरोजदले ज्ञाने त्रिषु निस्तुषवस्तुनि ।तशब्दः पुंसि संभोगे निश्चये कोपपुच्छयोः ॥
1.36 · p. 6
अनुष्टुप्
धातुवादविधौ चोरे करुणायां तु ता स्त्रियाम् ।तच्छब्दः प्रकृतार्थोक्तौ त्रिषु हेतौ तदव्ययम् ॥
1.37 · p. 6
अनुष्टुप्
तेशब्दः क्रीडने स्त्री स्यात्क्रीडके त्वभिधेयवत् ।तृट्पिपासेहयोः स्त्री स्यात् थः पुंस्यूर्मिगिरीन्दुषु ॥
1.38 · p. 6
अनुष्टुप्
स्त्रीलिङ्गोऽयं तरङ्गिण्यां क्लीबे भयनिवारणे ।वाच्यलिङ्गस्तु धवले श्यामले पृथुलेऽपि च ॥
1.39 · p. 6
अनुष्टुप्
दः पुंसि दातरि छेदे दा स्त्रियां क्षान्तिदानयोः ।दं क्लीबे पानवैराग्यकलत्रेष्ववलोकने ॥
1.40 · p. 6
अनुष्टुप्
मेघलिङ्गस्त्वयं मूके गृहीते द्रावके शुचौ ।दर्शनज्ञाननेत्रेषु दृक् स्त्री द्रष्टरि तु त्रिषु ॥
1.41 · p. 6
अनुष्टुप्
धः पुंसीन्द्रे ध्वनौ ध्याने श्रीदे धन्वन्तरौ घटे ।धं वेश्मनि धने धान्ये बुद्धौ स्त्री धा च धिश्च धीः ॥
1.42 · p. 6
अनुष्टुप्
धूर्ना धूपे स्त्री तु कम्पे वित्ते भारे युगाग्रयोः ।हेरम्बे नः पुमान्ना स्त्री नाभौ नं ज्ञानवाद्ययोः ॥
1.43 · p. 7
अनुष्टुप्
वध्यसूक्ष्मपरिक्लिष्टशून्यभिन्नेषु नस्त्रिषु ।नुशब्दस्तु स्तुतौ स्त्री स्यान्नौः स्त्री तरणिकालयोः ॥
1.44 · p. 7
अनुष्टुप्
पः पुमान्पवने शैले प्रकाशे कौस्तुमे क्षणे ।शुभलग्नेऽथ पं क्लीबे हेम्नि पाः पातृपानयोः ॥
1.45 · p. 7
अनुष्टुप्
स्त्रीलिङ्गे त्वम्बुधारायां सुधायां सम्मतौ च पा ।पुस्त्रिष्वार्ते प्रसन्ने च पूः स्त्री पुरशरीरयोः ॥
1.46 · p. 7
अनुष्टुप्
पूरणे चाथ पुंशब्दः पुरुषे परमात्मनि ।फो झञ्झानिल आस्फोटे फूत्कारे वारणे रणे ॥
1.47 · p. 7
अनुष्टुप्
फा स्त्रियां निष्ठुरोक्तौ च कलाकेलिकुटीषु च ।अथ स्फारे परोक्षे च फशब्दो वाच्यलिङ्गकः ॥
1.48 · p. 7
अनुष्टुप्
बः कुम्भे वरुणे बिन्दौ विकल्पे खे गुरौ मदे ।विभूतिकारे कलहे पक्षे गर्भे च पर्वणि ॥
1.49 · p. 7
अनुष्टुप्
बा स्त्रियां काहलीवल्लीशृङ्खलास्वमले त्रिषु ।भः शंभौ भ्रमरे भावे शुक्रेंऽशौ जलदे पुमान् ॥
1.50 · p. 7
अनुष्टुप्
भा भुव्यलंकृतौ दीप्तौ स्त्रियां भाः किरणे द्युतौ ।क्लीबे तु गगने राशौ तारायां पुण्ड्रचक्रयोः ॥
1.51 · p. 7
अनुष्टुप्
भीः स्त्री भीत्यां खगे पुंसि स्थानभूम्योस्तु भूः स्त्रियाम् ।मः शंभौ धातरीन्द्रे ना चन्द्रे मासे च माः पुमान् ॥
1.52 · p. 7
अनुष्टुप्
मा स्त्री माने मृतौ वेलामेधाश्रीमध्यमातृषु ।माव्ययं प्रतिषेधे च जने तु स्यान्नपुंसकम् ॥
1.53 · p. 8
अनुष्टुप्
मुः पुंसि बन्धने पिङ्गकपिलाभिधवर्णयोः ।यस्त्यागे निलये वायौ यमे धातरि यातरि ॥
1.54 · p. 8
अनुष्टुप्
या स्त्रियां यानमञ्जर्योः शोभालक्ष्म्योश्च निर्वृतौ ।यच्छब्दः सर्वनामाख्यस्त्रिषु हेतौ यदव्ययम् ॥
1.55 · p. 8
अनुष्टुप्
ख्या स्त्री ख्यातौ प्रकथने ज्या मौर्वीमातृभूमिषु ।द्युर्नाकेऽप्यह्वि वह्नौ च स्वर्व्योम्नोर्द्योदिवौ स्त्रियाम् ॥
1.56 · p. 8
अनुष्टुप्
रः पुमान्पावके कामे क्षये वज्रे शयेऽप्यरौ ।रा स्त्रियां हेम्नि शालायामाशंसायां गतावपि ॥
1.57 · p. 8
अनुष्टुप्
रं क्लीबे रुधिरे मूर्ध्नि ध्यानव्योमाणुकुक्षिषु ।वक्त्रे भये च त्रिषु तु विरसे त्यागतीक्ष्णयोः ॥
1.58 · p. 8
अनुष्टुप्
रास्तु द्वयोर्धने स्वर्णे रिशब्दस्तु स्रवे क्षये ।स्त्री रुर्जालेच्छयोः कान्तौ रुर्ना युद्धे भये ध्वनौ ॥
1.59 · p. 8
अनुष्टुप्
स्त्री कामिनीवम्रिकयोः रूः स्वर्णे कामरूपिणि ।श्रीर्वेषरचनाशोभासंपत्सरलशाखिषु ॥
1.60 · p. 8
अनुष्टुप्
वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽप्यथ त्रिषु ।जटायां प्रा प्रूरणे स्त्री स्रुग्घोमाङ्गे गतौ स्त्रियाम् ॥
1.61 · p. 8
अनुष्टुप्
लः खण्डने त्रिष्वदाने स्त्री नेन्द्रे लवणे तु लम् ।श्रमैक्यनाशनश्रेष्ठसाम्यान्तलवणेषु लिः ॥
1.62 · p. 8
अनुष्टुप्
वः पुमान्सान्त्वने वायौ संयमे वरुणे स्मरे ।वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये ॥
1.63 · p. 9
अनुष्टुप्
विश्चक्षुषि व्योम्नि वाते परमात्मनि पक्षिणि ।वैश्ये जने पुरीषे विट् क्रमात्पुंसि द्वयोः स्त्रियाम् ॥
1.64 · p. 9
अनुष्टुप्
स्वोऽस्त्री धने पुमाञ्ज्ञातौ त्रिष्वात्मीये स्वमात्मनि ।स्वरव्ययं च त्रिदिवे त्विट् कान्तिज्वालयोः स्त्रियाम् ॥
1.65 · p. 9
अनुष्टुप्
वल्के लवङ्गवल्के त्वग्द्वार्द्वारोपाययोः स्त्रियाम् ।शो वल्मीके शिवे कूर्मे भूपे शिष्ये तनूकृतौ ॥
1.66 · p. 9
अनुष्टुप्
शा स्त्रियां देवपूजायां शक्तौ शोभावरेण्ययोः ।रमायां चाथ शं क्लीबे शास्त्रे श्रेयसि मङ्गले ॥
1.67 · p. 9
अनुष्टुप्
कीर्तौ शक्रायुधे स्वर्गे शः परोक्षे त्रिलिङ्गकः ।शमव्ययं च सौख्यार्थे शिः शंभौ शिवशान्तयोः ॥
1.68 · p. 9
अनुष्टुप्
निर्वाणहिंसास्वापेषु षः स्वर्गे विषये च ना ।षा स्त्री रमायां षं क्लीबे गर्भमोक्षावसानयोः ॥
1.69 · p. 9
अनुष्टुप्
मर्षणे च त्रिलिङ्गस्तु परोक्षश्रेष्ठयोरयम् ।सः पुंस्युमासुते वायौ देहकान्तौ तु सा स्त्रियाम् ॥
1.70 · p. 9
अनुष्टुप्
सं क्लीबे स्यन्दनपथे ज्ञाने ध्याने निवारणे ।सन्सत्ये विदुषि श्रेष्ठे साधौ भवति च त्रिषु ॥
1.71 · p. 9
अनुष्टुप्
सत् क्लीबमृक्षे सूशब्दः प्रेरणे गर्भमोचने ।सेशब्दः सेवने स्त्री स्यात्सेवके त्वभिधेयवत् ॥
1.72 · p. 9
अनुष्टुप्
हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु ।गर्वे प्रचेतसि स्त्री तु हा त्यागे गतिवीणयोः ॥
1.73 · p. 10
अनुष्टुप्
हं क्लीबमस्त्रसुखयोः क्वणिते मणिरोचिषि ।परब्रह्मामन्त्रणयोस्त्रिषु तून्मत्तहास्ययोः ॥
1.74 · p. 10
अनुष्टुप्
संबोधने च हेशब्दो हा स्त्रियां परिदेवने ।हुं प्रश्ने रासभेदे च वितर्कहयदानयोः ॥
1.75 · p. 10
अनुष्टुप्
क्षः संरोधे विरोधे च क्षेमदुःस्वप्नयोश्च ना ।क्षा स्त्री क्षमायां निद्रायां क्षं क्लीबे क्षेत्ररक्षसोः ॥
1.76 · p. 10
अनुष्टुप्
अप्राचुर्यात्प्रयोगस्य लिङ्गं क्वचिदुपेक्षितम् ।एकाक्षरेषु शब्देषु तदूह्यं लक्ष्यवेदिभिः ॥
1.77 · p. 10
अनुष्टुप्