कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · शान्ताः

॥ इति वान्ताः ॥

पाशो रज्जौ स निन्दार्थः क्षत्रादिभ्यः परो यदि ।कर्णात्परः सुवर्णार्थः कलापार्थः कचात्परः ॥
2.28.1 · p. 57
अनुष्टुप्
तिरोधाने क्षये नाशो राशिर्मेषादिपुञ्जयोः ।इष्ट्यन्तरममावास्या दर्शश्चाराहवौ स्पशौ ॥
2.28.2 · p. 57
अनुष्टुप्
दंशो दोषो वर्ममर्मखण्डनं वनमक्षिका ।वंशो वेणौ समूहे च पृष्ठास्थिनि कुलेऽपि च ॥
2.28.3 · p. 57
अनुष्टुप्
अंशुस्तन्त्वादिसूक्ष्मांशे किरणे तरणावपि ।वेशो वेश्यागृहे गेहमात्रनेपथ्ययोरपि ॥
2.28.4 · p. 57
अनुष्टुप्
वाशा भवेदाटरूषे वाशी तक्षणसाधने ।पेशी त्वण्डे खगादीनां मांस्यां खड्गपिधानके ॥
2.28.5 · p. 57
अनुष्टुप्
आशीरुरगदंष्ट्रायां शुभवागभिलाषयोः ।वर्त्त्यवस्थांशुकान्तेषु दशाशा तु दिगीहयोः ॥
2.28.6 · p. 57
अनुष्टुप्
निशा रात्रौ हरिद्रायां अर्शो दुर्नामरोगयोः ।त्रिष्वधीने वशो वाञ्छाप्रभुत्वाधीनतासु ना ॥
2.28.7 · p. 57
अनुष्टुप्
वशा वन्ध्यगवी योषा दुहिता करिणी च सा ।दर्भेषु कुशमस्त्री स्याद्द्वीपे रामसुतेऽपि ना ॥
2.28.8 · p. 57
अनुष्टुप्
अयोविकारे तु कुशी कुशा वल्गा कुशं जलम् ।काशस्तृणविशेषे ना काशी वाराणसी मता ॥
2.28.9 · p. 57
अनुष्टुप्
कोशोऽस्त्री कुट्मलेऽर्थौघे गुह्येऽण्डे शास्त्रदिव्ययोः ।गृहे देहे पुस्तकौघे पेश्यामसिपिधानके ॥
2.28.10 · p. 57
अनुष्टुप्
ईशः शंभौ प्रभौ तु त्रिष्वीशा लाङ्गलदण्डके ।रुजास्पर्शनदानेषु स्पर्शो ना स्प्रष्टरि त्रिषु ॥
2.28.11 · p. 57
अनुष्टुप्