All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · धान्ताः
॥ इति दान्ताः ॥
बुधः सूरौ सुरे सौम्ये वेधा विष्णौ विधातरि ।विधुः सुधाकरे काले विष्णौ वातेऽग्निरक्षसोः ॥
2.17.1 · p. 34
अनुष्टुप्
विधिर्विधाने नियतौ काले पद्मभवेऽप्यथ ।अधिष्ठाने चित्तदुःखे व्यसने बन्धनेऽपि च ॥
2.17.2 · p. 34
अनुष्टुप्
आधिर्बोधिः समाधौ च कुक्कुटाश्वत्थबुद्धिषु ।अब्धी सरःसरस्वन्तौ बन्धू बन्धूकबान्धवौ ॥
2.17.3 · p. 34
अनुष्टुप्
गन्धो गन्धकसंबन्धामोदलेशस्मयेषु च ।स्कन्धो वायुविभागेंऽसे प्रकाण्डे संहतौ नृपे ॥
2.17.4 · p. 34
अनुष्टुप्
विधा विधाने हस्त्यन्ने प्रकारे वेतनेऽपि च ।सुधामृतं लेपभेदो मूर्वा सर्पाशनं स्नुही ॥
2.17.5 · p. 34
अनुष्टुप्
वधूर्नवोढास्नुषयोर्भार्यास्त्रीशारिबासु च ।गोधा तले निहाकायां वृद्धिर्मोदसुखर्द्धिषु ॥
2.17.6 · p. 34
अनुष्टुप्
संधावधौ प्रतिज्ञायां श्रद्धा त्वास्तिक्यकाङ्क्षयोः ।आलस्यनिद्रयोर्मिद्धं खण्डेऽर्धोऽर्धं समांशके ॥
2.17.7 · p. 34
अनुष्टुप्
चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः ।क्लीबे त्वम्बुनि दुग्धे मकरन्दे क्षौद्रमद्ययोस्त्वस्त्री ॥
2.17.8 · p. 34
गीतिः
राधा कर्णस्योपमाता विशाखा गोपिका तटित् ।ना वैशाखेऽथ बाधा स्याद्वा ना दुःखनिषेधयोः ॥
2.17.9 · p. 34
अनुष्टुप्
सिद्धः पुमान्देवयोनौ नित्यनिष्पन्नयोस्त्रिषु ।दिग्धो विषाक्तबाणे ना त्रिषु लिप्तप्रबुद्धयोः ॥
2.17.10 · p. 35
अनुष्टुप्
त्रिषु स्याद्बुधिते बुद्धं विद्वत्सुगतयोः पुमान् ।श्रद्धावति त्रिषु श्राद्धः पितृकृत्ये तु न द्वयोः ॥
2.17.11 · p. 35
अनुष्टुप्
साधुस्त्रिषूचिते चारौ सभ्ये बार्धुषिके तु ना ।विनेत्रेऽन्धस्त्रिषु ध्वान्ते क्लीबे सिन्धुस्तु वारिधौ ॥
2.17.12 · p. 35
अनुष्टुप्
देशे नदे गजमदे ना नद्यां तु स्त्रियामयम् ।दुग्धं नपुंसकं क्षीरे भेद्यलिङ्गं प्रपूरिते ॥
2.17.13 · p. 35
अनुष्टुप्
लुब्धो ना मृगयौ गृध्नौ त्रिलिङ्गः स्यादथ त्रिषु ।मुग्धः सौम्ये नवे मूढे विद्धस्ताडितनुत्तयोः ॥
2.17.14 · p. 35
अनुष्टुप्
समृद्धे स्थविरे वृद्धः शुद्धः केवलपूतयोः ।
2.17.15 · p. 35