All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
अव्ययकाण्डः · द्व्यक्षरनानार्थाव्ययाः
॥ इत्येकाक्षरनानार्थाव्ययाः ॥
सहैकवारे च सकृदङ्ग संबुद्धिहर्षयोः ।कच्चित् प्रश्ने कामवादे वार्तासंभावनार्थयोः ॥
6.2.1 · p. 137
अनुष्टुप्
पश्चात्प्रतीच्यां चरमे किं चारम्भविशेषयोः ।सुष्ठु प्रशंसनेऽत्यर्थे बाढं त्वनुमते दृढे ॥
6.2.2 · p. 137
अनुष्टुप्
हन्त हर्षे विषादे च वाक्यारम्भानुकम्पयोः ।स्वस्त्याशीःक्षेमनिष्पापपुण्यमङ्गलवाचकम् ॥
6.2.3 · p. 137
अनुष्टुप्
बतानुकम्पासंतोषखेदामन्त्रणविस्मये ।आनन्तर्ये परिप्रश्ने पञ्चम्यर्थे भवेत्ततः ॥
6.2.4 · p. 137
अनुष्टुप्
कुतस्तु स्यात्परिप्रश्ने पञ्चम्यर्थापलापयोः ।आदिप्रकारसंपूर्तिहेतुप्रकरणेष्विति ॥
6.2.5 · p. 137
अनुष्टुप्
अति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे ।प्रति प्रतिनिधावित्थंभूताख्यानाभिमुख्ययोः ॥
6.2.6 · p. 137
अनुष्टुप्
वीप्सायां लक्षणे भागे प्रतिदानेऽवधारणे ।उत प्रश्ने वितर्के स्यात्समुच्चयविकल्पयोः ॥
6.2.7 · p. 138
अनुष्टुप्
पीडेर्ष्यानुमतिष्वस्तु स्यादतो हेतुचित्रयोः ।अथो अथेत्युभे प्रश्नविकल्पारम्भमङ्गले ॥
6.2.8 · p. 138
अनुष्टुप्
आनन्तर्ये च कार्त्स्न्ये च मिथोन्योन्यं रहस्यपि ।कथं प्रश्ने प्रकारार्थे संभ्रमे संभवेऽपि च ॥
6.2.9 · p. 138
अनुष्टुप्
सादृश्यार्थेऽनतिक्रान्तौ वीप्सायोग्यत्वयोर्यथा ।समुच्चयेऽप्यनुज्ञायां साम्यनिश्चययोस्तथा ॥
6.2.10 · p. 138
अनुष्टुप्
वृथा निरर्थकाविध्योः प्रादुर्जन्मप्रकाशयोः ।सत्यप्रत्यक्षयोरद्धा स्यादत्यधिक ईश्वरे ॥
6.2.11 · p. 138
अनुष्टुप्
नन्वनुज्ञैतिह्यपृच्छानुनयेष्ववधारणे ।आमन्त्रणे च नाना तु विनानेकोभयार्थकः ॥
6.2.12 · p. 138
अनुष्टुप्
हेतुसादृश्ययोः स्थाने मनाक् तु स्वल्पमन्दयोः ।अनु हीने च सादृश्ये पश्चादर्थेऽप्यनुक्रमे ॥
6.2.13 · p. 138
अनुष्टुप्
लक्षणादौ समीपेऽथ किंनु प्रश्नवितर्कयोः ।पुनरप्रथमप्रश्ने भेदावृत्त्यवधारणे ॥
6.2.14 · p. 138
अनुष्टुप्
शनैः शनैश्चरे स्वैरे नूनं निश्चयतर्कयोः ।उप हीनान्तिकारम्भेष्वाचार्यकरणेऽधिके ॥
6.2.15 · p. 139
अनुष्टुप्
अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये ।सामि त्वर्धे जुगुप्सायाममान्तिकसहार्थयोः ॥
6.2.16 · p. 139
अनुष्टुप्
नाम प्रकाशे कुत्सायां संभाव्येऽङ्गीकृतौ क्रुधि ।अपापकृष्टे त्यागे स्यादभि लिप्साभिमुख्ययोः ॥
6.2.17 · p. 139
अनुष्टुप्
किमु संभावनायां च स्याद्विकल्पविमर्शयोः ।कामं प्रकामेऽनुमतौ प्रश्नानुनययोरपि ॥
6.2.18 · p. 139
अनुष्टुप्
अये विषादस्मरणक्रोधसंभ्रमवाचकः ।परा निहीनेऽनावृत्तौ पुरोऽग्रे प्रथमेऽपि च ॥
6.2.19 · p. 139
अनुष्टुप्
पुरा प्रबन्धे प्रतने निकटागाम्यतीतयोः ।परि स्यात्सर्वतोभावे लक्षणादिषु भूषणे ॥
6.2.20 · p. 139
अनुष्टुप्
आलिङ्गने वर्जने चाप्याराद्दूरसमीपयोः ।तिरोऽन्तर्धौ तिरश्चीने पृथगर्थेऽन्तिके हिरुक् ॥
6.2.21 · p. 139
अनुष्टुप्
ऊरर्युरी चोररी च विस्तारेऽङ्गीकृतौ त्रयः ।संभावनायां वार्तायां स्मृतावनुनये किल ॥
6.2.22 · p. 139
अनुष्टुप्
एवं साम्याभ्यनुज्ञानप्रकारार्थाभिधायकः ।अव ज्ञानालम्बनयोरेव साम्येऽवधारणे ॥
6.2.24 · p. 139
अनुष्टुप्
यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ।यद्वा प्रश्ने वितर्के च प्राध्वं नम्रानुकूलयोः ॥
6.2.25 · p. 139
अनुष्टुप्
भूयःसदार्थयोः शश्वत्प्रकर्षात्यर्थयोर्भृशम् ।तूष्णीमर्थे सुखे जोषमह क्षेपनियोगयोः ॥
6.2.26 · p. 140
अनुष्टुप्
तर्हि प्रश्ने चोत्तरे च क्षणानुक्षणयोर्मुहुः ।आहो उताहो इत्येतौ विचारप्रश्नयोरपि ॥
6.2.28 · p. 140
अनुष्टुप्
हाहा स्यादद्भुते खेदे हीही विस्मयहर्षयोः ।तुल्यप्रत्यक्षयोः साक्षान्मङ्क्षु शीघ्रभृशार्थयोः ॥
6.2.29 · p. 140
अनुष्टुप्