कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · लान्ताः

॥ इति रेफान्ताः ॥

पीलुः प्रसूनकाण्डेभद्रुभेदपरमाणुषु ।सालो द्रुमे मत्स्यभेदे प्राकारे सर्जकद्रुमे ॥
2.26.1 · p. 51
अनुष्टुप्
बलिः पूजोपहारे च करे दैत्यान्तरेऽपि सः ।हेलिरालिङ्गनेऽर्के च कलहेऽन्त्ययुगे कलिः ॥
2.26.2 · p. 51
अनुष्टुप्
नलः पोटगले राजविशेषे कपिनायके ।तुला राशौ पलशते साम्येऽप्युन्मानसाधने ॥
2.26.3 · p. 51
अनुष्टुप्
गृहदार्वन्तरे भाण्डे हेलावज्ञाविलासयोः ।शाला तु स्कन्धशाखायां गेहगेहैकदेशयोः ॥
2.26.4 · p. 51
अनुष्टुप्
वलिर्वली चाप्युदररेखाचामरदण्डयोः ।गृहदारुविशेषे च जराविश्लथकर्मणि ॥
2.26.5 · p. 51
अनुष्टुप्
लीला केलिर्विलासश्च शृङ्गारप्रभवा क्रिया ।पालिः कर्णलताग्रे च प्रदेशाङ्काश्रिपङ्क्तिषु ॥
2.26.6 · p. 52
अनुष्टुप्
त्सरुच्छदे च यूकायां संजातश्मश्रुयोषिति ।आलिः सेतुः सखी पङ्क्तिः पल्ल्यल्पग्रामके कुटौ ॥
2.26.7 · p. 52
अनुष्टुप्
वेलाब्धितीराब्धिवृद्ध्योः कालमर्यादयोरपि ।बिलं रन्ध्रे गुहायां च पलमुन्मानमांसयोः ॥
2.26.8 · p. 52
अनुष्टुप्
फालं सीरोपकरणे कार्पासलपनेऽप्यथ ।गेहे देहे जनपदे सजातीयगणेऽन्वये ॥
2.26.9 · p. 52
अनुष्टुप्
कुलं कूलं तु सेनायाः पृष्ठे स्तूपे च रोधसि ।मूलमादौ शिफायां च समीपे तारकान्तरे ॥
2.26.10 · p. 52
अनुष्टुप्
जालं जालकमित्येतौ गवाक्षानाययोर्गणे ।दम्भकुट्मलयोश्चाथ शीलं वृत्तस्वभावयोः ॥
2.26.11 · p. 52
अनुष्टुप्
सैन्यास्थिरूपरेतःशक्तिस्थौल्येषु चेद्बलं क्लीबे ।वाट्यालके स्त्रियां त्रिषु बलवति ना सीरिदैत्यकाकेषु ॥
2.26.12 · p. 52
गीतिः
फलमिष्वग्रे सस्ये फलके जातीफले धने फाले ।भोगे बीजे लाभे हेतूत्पन्ने फली तु फलिनी स्यात् ॥
2.26.13 · p. 52
गीतिः
दलः खण्डे दलं पर्णे जलं नीरे जडे त्रिषु ।तलं स्वरूपाधरयोरस्त्री तालतरौ पुमान् ॥
2.26.14 · p. 52
अनुष्टुप्
क्लीबे च पेटे ज्याघातवारणे समभूतले ।व्रीह्याद्याघट्टनस्थाने खलो धूर्ते त्वयं त्रिषु ॥
2.26.15 · p. 52
अनुष्टुप्
तालः कालक्रियामाने करास्फाले द्रुमान्तरे ।स्याद्विस्तृताभ्यामङ्गुष्ठमध्यमाभ्यां मितावपि ॥
2.26.16 · p. 53
अनुष्टुप्
त्सरौ करतले चापि तालं तु हरितालके ।कालोऽनेहा यमो मृत्युः श्यामे ना तद्वति त्रिषु ॥
2.26.17 · p. 53
अनुष्टुप्
काला तु कृष्णत्रिवृति नीलिन्यां कृष्णजीरके ।काली नवाम्बुदश्रेण्यां भवानीमातृभेदयोः ॥
2.26.18 · p. 53
अनुष्टुप्
मालमुन्नतभूर्माला पङ्क्तौ पुष्पादिदामनि ।उखायां पाटलायां च स्थाली स्थालं तु भाजने ॥
2.26.19 · p. 53
अनुष्टुप्
व्यालः सर्पे दुष्टगजे श्वापदे ना शठे त्रिषु ।चेलं वस्त्रे बर्हिचन्द्रे त्रिषु त्वक्षमनिन्द्ययोः ॥
2.26.20 · p. 53
अनुष्टुप्
पिप्पलीचव्ययोः कोला सूकरोडुपयोः पुमान् ।शैली रीत्यां गिरौ शैलः शैलेये तु नपुंसकम् ॥
2.26.21 · p. 53
अनुष्टुप्
नीलः कपीशेऽद्रिभेदे कृष्णे ना तद्वति त्रिषु ।नीलिन्यां नीलिझण्ट्यां च नीली नीला तु मक्षिका ॥
2.26.22 · p. 53
अनुष्टुप्
शूलमस्त्र्यायुधे रोगे स्याद्दुष्टवधकीलके ।उपरागादिदोषे च शूला पण्याङ्गना भवेत् ॥
2.26.23 · p. 53
अनुष्टुप्
ब्रह्मदारुणि तु क्लीबे तूलं तुलस्तु ना पिचौ ।वालः कचेऽश्वेभपुच्छे ह्रीबेरे तु नपुंसकम् ॥
2.26.24 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
मल्लो दृढाङ्गपुञ्जातौ मत्स्ये पात्रकपालयोः ।श्रेष्ठे तु त्रिषु मल्ली तु मृत्पात्रतृणशून्ययोः ॥
2.26.25 · p. 53
अनुष्टुप्
भल्लो भल्लूकवाची स्याद्भल्ला भल्ली च सायके ।क्लिन्नाक्षे स्युश्चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि च त्रिषु ॥
2.26.26 · p. 54
अनुष्टुप्
आतापिवाची चिल्लो ना स्त्री तु चुल्ल्यन्तिका भवेत् ।ज्वाले स्थाणौ द्वयोः कीलः शङ्कुशङ्करयोः पुमान् ॥
2.26.27 · p. 54
अनुष्टुप्
नालं तु न स्त्रियां काण्डे क्लीबे विवरशेफसोः ।शिलमुञ्छं शिला ग्रावा शिली गण्डूपदी भवेत् ॥
2.26.28 · p. 54
अनुष्टुप्
साज्ये मधुनि तक्कोले बोलं बोलोऽम्भसां भ्रमे ।कलांऽशमात्रे शिल्पादौ कलनाकालभेदयोः ॥
2.26.29 · p. 54
अनुष्टुप्
इन्दोश्च षोडशे भागे स्यान्मूलधनवर्धने ।कलमव्यक्तमधुरध्वनौ स्याद्वाच्यलिङ्गकम् ॥
2.26.30 · p. 54
अनुष्टुप्
मौलिः संयतकेशेषु चूडायां मकुटे द्वयोः ।पापे पुरीषे किट्टे च मलमस्त्री ततस्त्रिषु ॥
2.26.31 · p. 54
अनुष्टुप्
जडपीवरयोः स्थूलो लोलश्चलसतृष्णयोः ।मूर्खशाबकयोर्बालः खलचञ्चलयोश्चलः ॥
2.26.32 · p. 54
अनुष्टुप्