कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · क्षान्ताः

॥ इति हान्ताः ॥

पक्षः सहायगरुदन्तिकसाध्यभित्तिमित्रेषु चुल्लिविवरे नृपकृञ्जरे च ॥
2.32.1 · p. 60
बृन्दे कचादुपरि मासदले च पक्षद्वारे बले च गजपार्श्वविरोधयोश्च ।प्लक्षो द्वीपो गर्दभाण्डः पर्कटी पिप्पलद्रुमः ॥
2.32.2 · p. 60
वसन्ततिलकाmetre not read in every line
मोक्षोऽपवर्गे मृत्यौ च मोचने मुष्ककद्रुमे ।ध्वाङ्क्षौ काकबकौ यक्षः कुबेरे गुह्यकेऽपि च ॥
2.32.3 · p. 60
अनुष्टुप्
भिक्षा तु भिक्षितान्नादौ याच्ञायां भृतिसेवयोः ।बुद्धौ नृत्ते क्षणे प्रेक्षा रक्षा रक्षणलाक्षयोः ॥
2.32.4 · p. 60
अनुष्टुप्
अक्षमिन्द्रियमक्षो ना रथाङ्गव्यवहारयोः ।पाशके शकटे कर्षे द्यूतभेदे कलिद्रुमे ॥
2.32.5 · p. 61
अनुष्टुप्
नक्षत्रमृक्षं भल्लूके शोणके च पुमानयम् ।लक्षं शरव्ये व्याजे च न स्त्रियां नियुते तु ना ॥
2.32.6 · p. 61
अनुष्टुप्
न्यक्षस्तु पुंसि महिषे त्रिषु कार्त्स्न्यनिकृष्टयोः ।कक्षो गुल्मे तृणे बाहुमूले स्त्री तूत्तरक्रमे ॥
2.32.7 · p. 61
अनुष्टुप्
दक्षः प्रजापतौ वह्नौ ताम्रचूडे हरे मुनौ ।त्रिष्वभिज्ञेऽप्यन्यवत्तु रूक्षं निष्प्रेम्ण्यचिक्कणे ॥
2.32.8 · p. 61
अनुष्टुप्