कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · दान्ताः

॥ इति थान्ताः ॥

शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि ।अब्दः संवत्सरे मेघे क्षोदो रेतसि पेषणे ॥
2.16.1 · p. 33
अनुष्टुप्
वशाभिप्राययोश्छन्दः स्यात्पर्णगरुतोश्छदः ।गजदानं गर्वहर्षरेतोमृगमदा मदाः ॥
2.16.2 · p. 33
अनुष्टुप्
वेदश्छन्दसि यज्ञाङ्गे रदो दन्ते विलेखने ।भेदः स्यादुपजापे च विदारणविशेषयोः ॥
2.16.3 · p. 33
अनुष्टुप्
शादः पङ्के बालतृणे स्वेदः स्वेदनघर्मयोः ।पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते ॥
2.16.4 · p. 33
अनुष्टुप्
चरणे किरणे चाथ क्लेदो रसशशाङ्कयोः ।कन्दो वृक्षादिमूले च सूरणाम्बुदयोरपि ॥
2.16.5 · p. 33
अनुष्टुप्
स्कन्दो गुहे नदीकूले साद्यश्वारोहसूतयोः ।पादुकोपानहोः पादूश्छर्दिर्वमनरेतसोः ॥
2.16.6 · p. 33
अनुष्टुप्
पादभूषाशृङ्खलयोरन्दूस्रय इमे स्त्रियः ।पदं व्याजाङ्घ्रितच्चिह्नस्थानत्राणांशुलक्ष्मसु ॥
2.16.7 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृ (wrong syllable)
व्यवसाये सुप्तिङन्ते सायके वस्तुवाक्ययोः ।छन्दांसि त्रिष्टुभादीनि श्रुतीच्छानुनया अपि ॥
2.16.8 · p. 33
अनुष्टुप्
नदः समुद्रे निनदे सरिद्भेदे नदी सरित् ।गदो रोगहरिभ्रात्रोर्गदा स्यादायुधान्तरे ॥
2.16.9 · p. 33
अनुष्टुप्
कुन्दं माघ्ये च कुन्दो ना निधिभेदमुरद्विषोः ।मन्दः पुंसि रवेः सूनौ गजभेदे त्रिषु त्वयम् ॥
2.16.10 · p. 33
अनुष्टुप्
खलमूर्खजडस्वैरस्वल्पनिर्भाग्यरोगिषु ।मृद्वनुष्णेऽपि मधुरं मृष्टं च स्वाद्विमौ त्रिषु ॥
2.16.11 · p. 33
अनुष्टुप्