All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · नान्ताः
॥ इति धान्ताः ॥
सेनान्यौ स्कन्दसेनेशावीशान्यौ धातृशंकरौ ।दहनौ वह्निभल्लातौ युञ्जानौ विप्रसारथी ॥
3.17.1 · p. 88
अनुष्टुप्
संतानाः स्युरविच्छित्तिवंशापत्यसुरद्रुमाः ।तमोनुदोऽग्निचन्द्रार्काः शकुनिः करणे खगे ॥
3.17.3 · p. 88
अनुष्टुप्
अरत्निः कूर्परे सप्रकोष्ठोर्ध्वाङ्गुलिहस्तके ।उदान उदरावर्ते सर्पमारुतभेदयोः ॥
3.17.4 · p. 88
अनुष्टुप्
अद्मिनी स्त्री दारवाम्बुपात्रे च पशुभक्षणे ।ह्रादिनी वज्रतटितोः शिञ्जिनी नूपुरज्ययोः ॥
3.17.5 · p. 88
अनुष्टुप्
रञ्जनी रोचनानील्योर्वन्दायामपि कामिनी ।वाहिनी सैन्यसरितोर्वर्तनी वृत्तिमार्गयोः ॥
3.17.6 · p. 88
अनुष्टुप्
पद्मिनी करिणीश्रीस्त्रीसरोब्जनलिनीषु च ।वाणिनी नर्तकी मत्ता विदग्धाप्यथ मालिनी ॥
3.17.7 · p. 88
अनुष्टुप्
मालाकारस्त्रियां गौर्यां स्वर्णदीवृत्तभेदयोः ।संधिन्यकालदुग्धा गौराक्रान्ता वृषभेण च ॥
3.17.8 · p. 88
अनुष्टुप्
पूतना राक्षसी पथ्या भावना ध्यानयत्नयोः ।भुवनं खाम्बुलोकेषु भवनं भाववेश्मनोः ॥
3.17.9 · p. 88
अनुष्टुप्
प्रज्ञानं लाञ्छनधियोर्दंशनं दंशवर्मणोः ।क्रन्दनं रोदनाहूत्यो रोदनं क्रन्दनाश्रुणोः ॥
3.17.11 · p. 89
अनुष्टुप्
प्रसूनं पुष्पफलयोर्लाञ्छनं नामलक्ष्मणोः ।स्तननं गर्जितध्वन्योर्गहनं वनदुःखयोः ॥
3.17.12 · p. 89
अनुष्टुप्
बन्धनं बन्धवधयोर्भाजनं योग्यपात्रयोः ।भेदनं कृन्तने भेदे तोदनं तोत्रतोदयोः ॥
3.17.13 · p. 89
अनुष्टुप्
प्रथनं दारुणे युद्धे मेहनं मूत्रशेफसोः ।उद्धानमुद्गमे चुल्ल्यामवनं प्रीतिरक्षयोः ॥
3.17.14 · p. 89
अनुष्टुप्
शासनं निष्करग्रामे निग्रहे वेदशास्त्रयोः ।वाङ्नियोगे प्रहरणे स्याल्लेख्ये कर्मवाक्ययोः ॥
3.17.15 · p. 89
अनुष्टुप्
स्यान्निदानं वत्सदामन्यादिकारणखण्डयोः ।कौलीनं तु कुलीनत्वे प्राणिद्यूतापवादयोः ॥
3.17.16 · p. 89
अनुष्टुप्
स्यात्कौपीनमकार्ये च गुह्यचीरप्रभेदयोः ।बीजावापेऽपि वपनं हिंसायामपि वर्जनम् ॥
3.17.17 · p. 89
अनुष्टुप्
वर्धनं छेदने चापि चतुःकोशे च योजनम् ।राशिभेदेऽपि मिथुनं संगतावपि मैथुनम् ॥
3.17.18 · p. 89
अनुष्टुप्
तेमनं व्यञ्जने क्लेदे संव्यानं छादनेंऽशुके ।सवनं सोमनिष्पेषे जननस्नानयोरपि ॥
3.17.19 · p. 89
अनुष्टुप्
अयनं निलये मार्गे दक्षिणोदग्गतौ रवेः ।जघनं कामिनीश्रोणीपुरोभागे कटिस्थले ॥
3.17.20 · p. 89
अनुष्टुप्
आसनं कुञ्जरस्कन्धे पीठे यात्रानिवर्तने ।दर्शनं दर्पणस्वप्नबुद्धिशास्त्राक्षिदृष्टिषु ॥
3.17.21 · p. 89
अनुष्टुप्
केतनं गेहचिह्नाङ्गकृतामन्त्रणकेतुषु ।उत्थानमुद्गमाकाङ्क्षातन्त्रपौरुषवस्तुषु ॥
3.17.22 · p. 90
अनुष्टुप्
व्युत्थानं तु स्वतन्त्रत्वकरणं प्रतिकूलता ।प्रधानं परमात्मा धीर्मन्त्री प्रकृतिरुत्तमः ॥
3.17.23 · p. 90
अनुष्टुप्
प्रस्थापने निरसने कालक्षेपे च यापनम् ।उद्यानं स्यानिःसरणे वनभेदे प्रयोजने ॥
3.17.24 · p. 90
अनुष्टुप्
संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ।व्यसनं त्वशुभे सक्तौ विपत्तौ निष्फलोद्यमे ॥
3.17.25 · p. 90
अनुष्टुप्
दैवानिष्टफले पापे दोषे कामजकोपजे ।स्याद्विधानं वेतनायामुपाये प्रेरणे धने ॥
3.17.26 · p. 90
अनुष्टुप्
प्रकारे हस्तिकबले पूजायां वैरकर्मणि ।व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽक्षरे ॥
3.17.27 · p. 90
अनुष्टुप्
वेष्टनं मुकुटोष्णीषे गन्धनं तु प्रकाशने ।सूचने चापि हिंसायां परस्योत्साहने च तत् ॥
3.17.28 · p. 90
अनुष्टुप्
साधनमनुगमगत्योः शेफसि सिद्धौ निवृत्तिदापनयोः ।मृतसंस्कारे हेतौ धनहिंसायातनासु सेनाङ्गे ॥
3.17.29 · p. 90
गीतिः
जीवन्त्यां जीवनी चाथ क्रीडायामपि देवनम् ।नाक्षेऽथ दशनं क्लीबे कवचे रदने पुमान् ॥
3.17.30 · p. 90
अनुष्टुप्
स्यन्दनं स्रवणे तोये ना तु नेमिद्रुमे रथे ।गोस्तनो हारभेदेऽपि मृद्वीकायां तु गोस्तनी ॥
3.17.31 · p. 90
अनुष्टुप्
वृजिनं किल्बिषे क्लीबे क्लेशे ना कुटिले त्रिषु ।शय्यायां शयनं न स्त्री क्लीबे सुरतनिद्रयोः ॥
3.17.32 · p. 90
अनुष्टुप्
शमनं शान्तिवधयोः क्लीबे वैवस्वते पुमान् ।पाकस्थाने कुलालस्य पवनं मारुते पुमान् ॥
3.17.33 · p. 91
अनुष्टुप्
अपानो वायुभेदे स्यादपानं गुदमुष्कयोः ।निःश्वासे श्वसनं ना तु मारुते मदनद्रुमे ॥
3.17.34 · p. 91
अनुष्टुप्
अस्त्री वितानमुल्लोचविस्तारमखसद्मसु ।शून्ये मन्दे त्रिष्वथास्त्री व्रीह्यब्दार्चिःसु हायनः ॥
3.17.35 · p. 91
अनुष्टुप्
शकुनं मङ्गलाशंसि निमित्ते शकुनः खगे ।समानः प्राणभेदे ना त्रिष्वेकसमसाधुषु ॥
3.17.36 · p. 91
अनुष्टुप्
मलिनी ऋतुमत्यां स्त्री कृष्णदूषितयोस्त्रिषु ।स्पर्शे त्वगिन्द्रिये दाने स्पर्शनं मारुते पुमान् ॥
3.17.37 · p. 91
अनुष्टुप्
धावनं गमने शुद्धौ धावनी रजकस्त्रियाम् ।वामनो वाच्यवत्खर्वे विष्णुदिग्गजयोः पुमान् ॥
3.17.38 · p. 91
अनुष्टुप्
अवलग्ने विलग्नोऽस्त्री संलग्ने त्रिष्वथ द्वयोः ।अशनिर्विद्युति पवौ रोचनः कूटशाल्मलौ ॥
3.17.39 · p. 91
अनुष्टुप्
रोचना रक्तकह्लारे गवां पित्ते वरस्त्रियाम् ।पद्माकरेऽब्जवल्ल्यां स्त्री नलिनी नलिनं जले ॥
3.17.40 · p. 91
अनुष्टुप्
पद्मेऽथ कुहना दम्भचर्यायां त्रिष्वसूयके ।प्रसन्ना मदिरायां स्त्री प्रसादवति वाच्यवत् ॥
3.17.41 · p. 91
अनुष्टुप्
स्यान्मण्डनमलंकारेऽलंकरिष्णौ तु वाच्यवत् ।नन्दनं वासवोद्याने सुते ना हर्षके त्रिषु ॥
3.17.42 · p. 91
अनुष्टुप्
अञ्जना वायुपत्नी ना दिग्गजे कज्जलेऽञ्जनम् ।सज्जना कल्पनायां स्यात्सज्जनं घट्टगुल्मके ॥
3.17.43 · p. 91
अनुष्टुप्
त्रिषु साधौ चेतना तु ज्ञाने स्त्री प्राणिनि त्रिषु ।विमानोऽस्त्री देवयाने सप्तभूमिकसद्मनि ॥
3.17.44 · p. 92
अनुष्टुप्
सुमनाः पुष्पमालत्योः स्त्रियां देवे बुधे च ना ।अयं पुष्पे बहुष्वेव लोध्रवृक्षेऽपि मार्जनः ॥
3.17.45 · p. 92
अनुष्टुप्
रसनं स्नेहकषायद्रवविषहेमान्नरूप्यरास्नासु ।ध्वनिफलनिर्यासेष्वथ काञ्च्यां स्त्री स्वादुजिह्वयोः स न ना ॥
3.17.46 · p. 92
गीतिः
पार्थेऽर्जुनः केकिनि कार्तवीर्ये नेत्रामयेऽप्येकसुते च मातुः ।वर्णे द्रुमे चाथ सिते त्रिलिङ्गो गव्यर्जुनी हेम्नि तृणेऽर्जुनं स्यात् ॥
3.17.47 · p. 92
इन्द्रवज्रा
वेदना स्त्री दुःखभोगे ज्ञाने क्लीबमथ त्रिषु ।तलुनः पवने यूनि स्त्रियां तु तलुनी(नीं) विदुः ॥
3.17.48 · p. 92
अनुष्टुप्
तलिनं विरले चाल्पे विलीनौ लीनविद्रुतौ ।विक्लिन्नाः शीर्णजीर्णार्द्राः पिशुनौ खलसूचकौ ॥
3.17.49 · p. 92
अनुष्टुप्
स्यादुत्तानमगम्भीरे शयितोर्ध्वमुखेऽपि च ।आपन्न आपत्प्राप्तेऽपि संपन्नः साधितेऽपि च ॥
3.17.50 · p. 92
अनुष्टुप्