All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · थान्ताः
॥ इति तान्ताः ॥
वानप्रस्थो मधुष्ठीले तृतीयाश्रमवर्तिनि ।किंशुके प्राणनाथस्तु यमे प्राणेश्वरेऽपि च ॥
4.11.1 · p. 118
अनुष्टुप्
अनीकस्थो राजरक्षी गजरक्षणदक्षिणः ।चतुष्पथं चतुर्मार्गसंगमे ब्राह्मणे तु ना ॥
4.11.2 · p. 118
अनुष्टुप्
दशमीस्थो नष्टबीजे स्थविरे च त्रिलिङ्गकः ।
4.11.3 · p. 118