All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · पान्ताः
॥ इति नान्ताः ॥
कलापो भूषणे बर्हे काञ्च्यां संहतितूणयोः ।आकल्पः कल्पने वेषे विकल्पो भ्रान्तिकल्पयोः ॥
3.18.1 · p. 92
अनुष्टुप्
आवापः शत्रुचिन्तायां प्रक्षेपावालयोरपि ।आक्षेपो भर्त्सनाकृष्ट्योः काव्यालंकारचोद्ययोः ॥
3.18.2 · p. 92
अनुष्टुप्
स्यात्पादपः पादपीठे पादयाने महीरुहे ।कश्यपौ मुनिमीनौ द्वौ प्रतापौ पौरुषातपौ ॥
3.18.3 · p. 92
अनुष्टुप्
प्रतिपज्ज्ञानतिथ्योः स्त्री कच्छपी डुलिवीणयोः ।विटपोऽस्त्री द्रुविस्तारे पल्लवे स्तम्बशाखयोः ॥
3.18.4 · p. 93
अनुष्टुप्
विटे तु ना स्यादुडुपस्विन्दौ ना न द्वयोः प्लवे ।अस्त्री कशिपु शय्यायां वस्त्रेऽन्ने तद्व्ययेऽपि च ॥
3.18.5 · p. 93
अनुष्टुप्
कुतुपोऽर्के गवि विप्रे वह्नावतिथौ च भागिनेये च ।अस्त्री दिनाष्टमांशे कुशतिलयोश्छागकम्बले वाद्ये ॥
3.18.6 · p. 93
गीतिः