All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · भान्ताः
॥ इति बान्ताः ॥
ऋषभोऽद्रौ कर्णरन्ध्रे वृषे मत्तगजे स्वरे ।वराहस्यापि पुच्छेऽथ वृषभः पुंगवे वृषे ॥
3.21.1 · p. 93
अनुष्टुप्
विस्रम्भः केलिकलहे स्नेहविश्वासयोरपि ।स्याद्विष्कम्भो नाटकाङ्गे विस्तारप्रतिबन्धयोः ॥
3.21.2 · p. 93
अनुष्टुप्
योगभेदेऽथ शरभोऽष्टापदे च मृगान्तरे ।आत्मभूर्मन्मथे वेधस्यारम्भो वधदर्पयोः ॥
3.21.3 · p. 93
अनुष्टुप्
उद्यमे चाथ ककुभो वीणाङ्गेऽर्जुनपादपे ।सनाभिः सदशज्ञात्योरालम्भः स्पर्शहिंसयोः ॥
3.21.4 · p. 94
अनुष्टुप्
कुसुम्भं कुङ्कुमे हेम्नि स्यान्महारजतेऽपि तत् ।कमण्डलौ पुमानेष सुरभिस्तु गवि स्त्रियाम् ॥
3.21.5 · p. 94
अनुष्टुप्
वसन्तचैत्रयोः पुंसि त्रिषु सौम्यसुगन्धिनोः ।स्त्रियां पुनर्नवाभेक्योर्वर्षाभूर्दुर्दुरे तु ना ॥
3.21.6 · p. 94
अनुष्टुप्
पुमान्भेर्यां दुन्दुभिः स्त्री त्वक्षबिन्दुत्रिकद्वये ।वल्लभो ना कुलीनाश्वे दयिताध्यक्षयोस्त्रिषु ॥
3.21.7 · p. 94
अनुष्टुप्