All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · हान्ताः
॥ इति सान्ताः ॥
निवहो वायुभेदेऽपि कलहो द्वन्द्वयुद्धयोः ।निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके ॥
3.30.1 · p. 110
अनुष्टुप्
क्वाथे रसेऽथ दात्यूहश्चातके कलकण्ठके ।प्रवाहः पाथसां वेगे प्रकृष्टाश्वे प्रवर्तने ॥
3.30.2 · p. 111
अनुष्टुप्
प्रवहः स्याद्वायुभेदे वायुमात्रे बहिर्गतौ ।स्वीकारोच्छ्रायसंक्षेपमहोद्योगेषु संग्रहः ॥
3.30.3 · p. 111
अनुष्टुप्
आग्रहोऽनुग्रहासक्तिनिर्बन्धग्रहणेष्वथ ।श्रोण्यामारोहणे दैर्घ्ये समुच्छ्राये निषादिनि ॥
3.30.4 · p. 111
अनुष्टुप्
आरोहः स्यात्कटाहस्तु कूर्मपृष्ठे च कर्परे ।तैलादिपाकपात्रेऽथ निग्रहः सीम्नि भर्त्सने ॥
3.30.5 · p. 111
अनुष्टुप्
वराहः सूकरे विष्णौ नाणके शैलमुस्तयोः ।तुलासूत्रेऽश्वादिरश्मौ प्रग्राहप्रग्रहावुभौ ॥
3.30.6 · p. 111
अनुष्टुप्
अन्त्यस्तु संयमे बन्द्यां पूजायामर्गलेऽपि च ।विग्रहः समरे देहे विस्तारेऽप्यथ निर्दहः ॥
3.30.7 · p. 111
अनुष्टुप्
वैदेही स्याद्वणिग्योषित्पिप्पली जनकात्मजा ।
3.30.9 · p. 111