अल्प
alpaवि · adj.In 14 kośas: 12 synonym verses, 63 as a meaning of another word.
स्तोकं क्षुल्लं तुच्छमल्पं दभ्राणुतलिनानि च ॥ १४२६ ॥तनु क्षुद्रं कृशं सूक्ष्मं पुनः श्लक्ष्णं च पेलवम् ।
अनुष्टुप्
genderविadj.
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।
अनुष्टुप्
genderविadj.
सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
अनुष्टुप्
genderविadj.
पीवपीवरभूरिष्ठपुष्टे स्थूलानि भूरि च ।स्तोकं पत्रमुत्तमल्पं क्षुल्लकं खुल्लकं पुनः ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्र (wrong syllable)
genderविadj.
स्वल्पमल्पं कणीकं च कणिका च कणिः कणी ।कणीयोल्पीयमल्पिष्ठमणीयो बहुलं बहु ॥ ११८ ॥
अनुष्टुप्
genderविadj.
परायणोऽल्पशरणकार्मणानां ततः पुनः ।क्षुस्यधोरणभूतानां निशान्ताश्मन्तयोरपि ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
बंहिष्ठं चापि बंहीयो भावे भूमा न च स्त्रियाम् ।स्फेमा च बंहिमा चाथ स्तोकमल्पं कृशं तनु ॥ ७६ ॥
अनुष्टुप्
genderविadj.
क्षुल्लस्तोके तुच्छमल्पं दभ्राणुतलिनं तनु ।कृशं सूक्ष्मं तथा क्षुद्रं पेशले श्लक्ष्णमित्यपि ॥ ३१६ ॥
अनुष्टुप्
genderविadj.
विश्वं कृत्स्नं तथाशेषं खण्डेऽर्धं शकलं दलम् ।स्तोकं तुच्छं दभ्रमल्पं मात्रा लेशः कणो लवः ॥ ८९ ॥
अनुष्टुप्
genderविadj.
अल्पं तुच्छं तनु स्तोकं क्षुद्रं क्षुल्लं तथा कृशम् ।अणु च तलिनं दभ्रं दश नामानि सन्ति वै ॥ २५९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
genderविadj.
महान् भद्रश्च विपुलपीव्नी तु स्थूलपीवरे ।दभ्रमल्पं कृशं सूक्ष्मं स्तोकं च क्षुल्लकं तनु ॥ १५९७ ॥
अनुष्टुप्
genderविadj.
अल्पं सूक्ष्ममणु स्तोकं दह्रं दहरमर्हकम् ।किञ्चिन्मात्रम्मितं दभ्रं श्लक्ष्णं तनु च पेलवम् ॥ १३६ ॥
अनुष्टुप्
genderविadj.
अल्प as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् लघुत्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः । Amarakośa 3.3.55
- नामलिङ्गानुशासनम् कनिष्ठत्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥ Amarakośa 3.3.41
- नामलिङ्गानुशासनम् मन्दमूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ । प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥ Amarakośa 3.3.95
- नामलिङ्गानुशासनम् क्षुद्रक्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १७७ ॥ त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ १७८ ॥ Amarakośa 3.3.178
- नामलिङ्गानुशासनम् कनीयस्वृद्धप्रशस्ययोर्ज्यायान्कनीयांस्तु युवाल्पयोः । Amarakośa 3.3.458
- धरणिकोश त्रुटिवाटो मार्गे वृतौ वाटो वृक्षे च गृहवास्तुनि । त्रुटिः स्यात्संशये चाल्पे सूक्ष्मैलाकालमानयोः ॥ Dharaṇikośa 10.2.6
- धरणिकोश कनिष्ठप्रकोष्ठः कूर्पराधः स्यात्प्रकोष्ठं च गृहान्तरम् । कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा काचिदङ्गुली ॥ Dharaṇikośa 11.2.7
- धरणिकोश मन्दमन्दाः स्वैराल्परोगार्तमूढाभाग्यशनैश्चराः । [50] हस्तिजातिप्रभेदे च मन्दो मन्दरतो नरः ॥ Dharaṇikośa 17.3.4
- धरणिकोश तनुतनुस्त्वगल्पकायेषु तनुः स्याद्विरले कृशे । मृत्स्ना तु वरिका प्रोक्ता मृत्स्ना प्रशस्तमृत्तिका ॥ Dharaṇikośa 19.2.6
- धरणिकोश मात्रामात्रा कर्णविभूषायां धने माने परिच्छदे । अक्षरावयवे चाल्पे मात्रं कार्त्स्नेऽवधारणे ॥ Dharaṇikośa 26.3.9
- धरणिकोश कनीयस्कनीयाननुजे प्रोक्तो यूनि चाल्पे च कीर्तितः । विहायसं विदुर्व्योम पक्षिणश्च विहायसः ॥ Dharaṇikośa 31.2.18
- धरणिकोश नीचैस्सु पूजायां तथाधिक्ये आस्तु स्यात्कोपपीडयोः । [शनैः] शनैश्चरे स्वैरे नीचैः स्वैराल्पयोः स्मृतम् ॥ Dharaṇikośa 34.20.1
- कोषकल्पतरु अणुकत्रिष्वणुको निपुणेऽल्पे पृथुकश्चिपिटे पुमाञ्शिशौ वसुकः । त्रय्यां स्याच्छिवमल्ल्यां मन्दारे रामके तद्वत् ॥ २८ ॥ Koṣakalpataru 6.1.28
- कोषकल्पतरु कटुककटुकं कटुरोहिण्यां द्वंद्वेऽल्पे सर्षपे व्योषे । चलुकश्चुलकश्च द्वौ प्रसृतौ भाण्डप्रभेदे च ॥ ३७ ॥ Koṣakalpataru 6.1.37
- कोषकल्पतरु क्षुल्लकतक्षक उक्तो नागे स्थपतावल्पे तु निःस्वे च । नीचे कनीयसि स्या- त्परलिङ्गः क्षु[250a]ल्लकस्तद्वत् ॥ ३८ ॥ Koṣakalpataru 6.1.38
- कोषकल्पतरु लघुओघोऽम्बुवेगद्रुतनृत्यशिक्षा- परंपरासंहतिषु प्रयुक्तः । मेघो[ऽथ]पाथोधरमुस्तकार्थो ऽथाल्पे मनोज्ञे च लघुस्त्रिलिङ्गः ॥ ३३ ॥ Koṣakalpataru 6.4.33
- कोषकल्पतरु कनिष्ठवरे वरीयस्यपि तित्तिरौ च क्लीबे तु ताम्रे मरिचे तथैव । साधिष्ठ आर्येऽतिदृढे कनिष्ठ- स्त्वल्पेऽनुजे यूनि तथाङ्गुलौ स्त्री ॥ ६१ ॥ Koṣakalpataru 6.11.61
- कोषकल्पतरु रेणुधूलौ रेणुरपि द्वयोर्नरि पुनः स्यात्पर्पटाह्वौषधे सूक्ष्मेऽल्पे च परोपमोऽथ च किणो न स्त्री व्रणाङ्के घुणे । Koṣakalpataru 6.15.18
- कोषकल्पतरु तनुधनुः पियाले नरि राशिभेदे- शरासनेऽसावपि शस्त्रमात्रे । धनुर्धरे तु त्रितये तनुस्तु त्वक्काययोः स्त्री विरले कृशेऽल्पे ॥ १ ॥ Koṣakalpataru 6.21.1
- कोषकल्पतरु तलिनस्यात्पुंसि वायौ तलुनोऽथ यूनि भेद्योऽयमथो तलिनं तथाल्पे । तुच्छे पराभं विरले च शस्तं मलीमसे स्यान्मलिनं च कृष्णे ॥ २७ ॥ Koṣakalpataru 6.21.27
- कोषकल्पतरु सूक्ष्मवक्रे च मन्दे परवच्च सूक्ष्मं त्वध्यात्मके कैतवके च षण्ढे । अणौ पुमान्स्यात्त्रिषु चाल्पवाचि दस्मस्तु चौरानलयष्टृषु स्यात् ॥ ६९ ॥ Koṣakalpataru 6.25.69
- कोषकल्पतरु मात्रग्रन्थे निदेशे च वदन्ति शास्त्रं मात्रं तु कार्त्स्न्ये च धृतौ द्वयोनम् । स्त्री त्वक्षरस्यावयवे तथाल्पे परिच्छदश्रोत्रविभूषयोश्च ॥ ३२ ॥ Koṣakalpataru 6.27.32
- कोषकल्पतरु दभ्रदभ्रः समुद्रे त्रिषु चाल्पवाची शुभ्रं तु रूप्ये त्रिषु दीप्त-शुक्ले । खिद्रो गदे ना परवद्दरिद्रे- ऽथाभ्रं नभःस्वर्गघनाभ्रकेषु ॥ ५९ ॥ Koṣakalpataru 6.27.59
- कोषकल्पतरु शतपत्रसरोरुहेऽल्पेऽप्यथ वातपु[63b]त्रो वृकोदरे धूर्तहनूमतोश्च । स्मरे हये चापि वदन्ति लक्ष्मी- पुत्रं धनाद्यैस्तु भृते च पात्रे ॥ २८ ॥ Koṣakalpataru 6.27.28
- नानार्थार्णवसंक्षेप एकएकशब्दस्तु धीमद्भिः समाम्नातश्च केवले । प्रधाने प्रथमेऽन्यस्मिन् समानेऽल्पेऽप्यसौ पुनः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.4.5
- नानार्थार्णवसंक्षेप दभ्रहितेऽथ दभ्रं स्यादल्पे शिशौ ह्रस्वेऽथ सत्वरे । द्राङ्गं प्रांशौ च दीप्तं तु स्याद्दग्धे भासितेऽपि च ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 2.4.11
- नानार्थार्णवसंक्षेप श्लक्ष्णअरातौ वैरवति च समाम्नाताथ शक्लवाक् । प्रियंवदे च शक्ते च श्लक्ष्णं त्वल्पेऽपि सुन्दरे ॥ २८ ॥ Nānārthārṇavasaṃkṣepa 2.4.28
- नानार्थार्णवसंक्षेप क्षुद्रक्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः । त्रि क्षुद्रा स्त्री कण्टकारीवेश्याव्यङ्गानटीषु च ॥ २४२ ॥ Nānārthārṇavasaṃkṣepa 2.5.242
- नानार्थार्णवसंक्षेप तनुनान्दीवृक्षाह्वये त्रिस्तु विरलेऽल्पे कृशेऽपि च । तन्तुस्तु सूत्रे ना यज्ञसंस्थायां चाथ स द्वयोः ॥ ५११ ॥ Nānārthārṇavasaṃkṣepa 2.5.511
- नानार्थार्णवसंक्षेप दभ्रत्रिषु विश्राणिते दभ्रः पुनश्चन्द्रसमुद्रयोः । ना त्रि त्वल्पे च कुशले दल्भं तु नपि वल्कले ॥ ५७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.572
- नानार्थार्णवसंक्षेप लघुत्रिगुरुप्रतिपक्षे च स्यादिष्टेऽल्पमनोज्ञयोः । एकमात्रस्वरे चैषु स्त्र्यर्थे लध्वी लधुस्तथा ॥ ११३४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1134
- नानार्थार्णवसंक्षेप वण्डदुश्चर्मणीति कोऽप्याहच्छिन्नपुच्छपशावपि । केचित् त्वल्पेऽथ वक्रो ना विष्णावपि शनैश्चरे ॥ ११९० ॥ Nānārthārṇavasaṃkṣepa 2.5.1190
- नानार्थार्णवसंक्षेप शुण्ठअल्पे स्त्रीपुंसयोस्तु स्याच्छोषणे शुष्णवाक् तु ना । अर्के कश्चित्तु रश्मौ च ब्रूते कुक्षिनिदाघयोः ॥ १३९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1393
- नानार्थार्णवसंक्षेप सन्नकृत्रिमे मृन्मये सन्नं त्वनुदात्तविशीर्णयोः । अल्पे चाप्यवसन्ने च भेद्यलिङ्गं समामनन् ॥ १४६७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1467
- नानार्थार्णवसंक्षेप ?अल्पासु द्वे तु वेश्यायां निषादोत्पन्नमानवे । सूरिः पुनः पुंस्याचार्ये त्रि तु स्तोतरि पण्डिते ॥ १५४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1547
- नानार्थार्णवसंक्षेप स्योनतन्तुवायस्य बिन्दौ तु --- नाल्पे तु स त्रिषु । सोतः पुनर्जनयितर्यमि--रि च त्रिषु ॥ १५६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1565
- नानार्थार्णवसंक्षेप क्षुल्लकमूर्खे च कामुके चाथ कनीयांस्तु जघन्यजे । युवतरे चाल्पतरे क्षुल्लकस्त्वल्पनीचयोः ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 3.4.21
- नानार्थार्णवसंक्षेप तलिनतलिनं विरलेऽल्पेऽथ तीरितं पारिते तथा । तीरं च प्रापिते तीरीकृते च व्यवहारगैः ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 3.4.24
- नानार्थार्णवसंक्षेप अन्तरविशेषविवरान्तर्धिष्ववसानविनार्थयोः । अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 4.11
- नानार्थार्णवसंक्षेप खुण्डकवैजयन्त्यां त्रि तु ह्रस्वमात्रेऽल्पेऽन्येऽथ खेचरः । विद्याधरे दुश्चिकित्सविषे द्वे वृश्चिकान्तरे ॥ ६२७ ॥ Nānārthārṇavasaṃkṣepa 4.627
- नानार्थार्णवसंक्षेप तलिनभुवीन्द्रपुत्त्र्यां चाथ त्रिस्तलिनं विरलाल्पयोः । अजयस्त्वब्रवीत् तुच्छे तलिनी तु स्त्रियामियम् ॥ ८३७ ॥ Nānārthārṇavasaṃkṣepa 4.837
- नानार्थार्णवसंक्षेप दहरअल्पेऽथ भ्रातरि पुमान् रभसेन समीरितः । अथ त्रैराज्यजे द्वे स्यान्मर्त्यजात्यन्तरेऽपि च ॥ ९०८ ॥ Nānārthārṇavasaṃkṣepa 4.908
- शब्दरत्नावली स्तोकश्लोको यशसि पद्ये च स्तोकः स्याच्चातकाल्पयोः । शुल्कं घट्टादिदेये तु वरादर्थग्रहे स्त्रियाः ॥ Śabdaratnāvalī 7.1.24
- शब्दरत्नावली क्षण्णकक्षण्णकः स्त्रीषु नीचेऽल्पे कुशिको मुनिसर्जयोः । कुषाकुर्वानरेर्केऽऽग्नौ परोत्तापिनि तु त्रिषु ॥ Śabdaratnāvalī 7.1.54
- शब्दरत्नावली त्रुटित्रुटिः स्त्रियां संशयेऽल्पे सूक्ष्मैलकालमानयोः ॥ Śabdaratnāvalī 7.11.18
- शब्दरत्नावली मन्दभेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः । मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः ॥ मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥ Śabdaratnāvalī 7.18.6
- शब्दरत्नावली तनुज्योत्स्नी पटोलिकायान्तु ज्योत्स्नायुतनिशि स्त्रियाम् । तनुर्देहे त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे । दानं त्यागे हस्तिमदे च्छेदपालनशुद्धिषु ॥ Śabdaratnāvalī 7.20.10
- शब्दरत्नावली क्षुद्रऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
- शब्दरत्नावली मनाक्धिक् भर्त्सने च निन्दायां मनाक् स्यादल्पमन्दयोः । हिरुक् विनार्थे मध्यार्थेऽप्यमार्थे च दृश्यते ॥ Śabdaratnāvalī 8.1.15
- शब्दरत्नावली पुरस्तात्अहो बतानुकम्पायां खेदे सम्बोधनेऽपि च । पुरस्तात्प्रथमेऽवाच्यामग्रे चाल्पपुरार्थयोः ॥ Śabdaratnāvalī 8.1.33
- शब्दरत्नावली नीचैस्भोः स्यात्सम्बोधने प्रश्ने विषादेऽपि निगद्यते । अञ्जसा च द्रुते तत्त्वे निरस्त्वर्द्धिवक्रयोः ॥ नीचैः स्वच्छन्दाल्पयोः स्यात्पुरश्च प्रथमाग्रयोः । पूर्वेद्युः प्रातःसमये धर्मादौ पूर्ववासरे ॥ पतस्ततः प्रभृतयस्तूहनीयाः प्रयोगताः ॥ Śabdaratnāvalī 8.1.60
- शब्दरत्नाकर तनुधर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः । रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः । त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥ Śabdaratnākara 4.1.1933
- शब्दरत्नाकर मन्दमन्दः शनौ सरोगेऽज्ञे निर्भाग्येऽल्पेऽपटौ त्रिषु । अजागलस्तने रत्नेऽलिञ्जरेऽपि मणिर्द्वयोः ॥ १९७५ ॥ Śabdaratnākara 4.1.1975
- त्रिकाण्डशेष टुण्टुकजायामद्रिभित्तौ च खनित्रे ग्रावदारणे । कपित्थे चास्त्रियां टङ्कष्टुण्टुकावल्पशोणकौ ॥ २४ ॥ Trikāṇḍaśeṣa 3.3.24
- त्रिकाण्डशेष तनुशूरे दातरि च त्यागी व्रतिशोच्यौ तपस्विनौ । तपनो नरके भानौ विरलेऽल्पे कृशे तनुः ॥ २४१ ॥ Trikāṇḍaśeṣa 3.3.241
- त्रिकाण्डशेष सूक्ष्मसार्वभौमो गजे राज्ञि सम्भ्रमौ साध्वसादरौ । कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः ॥ ३०४ ॥ Trikāṇḍaśeṣa 3.3.304
- त्रिकाण्डशेष कनीयस्उदर्च्चिरुत्प्रभे वह्नावेनः पापपराधयोः । कनीयाननुजेऽल्पे च कंसो मानेसुरान्तरे ॥ ४४४ ॥ Trikāṇḍaśeṣa 3.3.444
- वैजयन्ती सन्नसन्नमल्पे विशीर्णादौ स्वादुर्मधुरमृष्टयोः । स्फुटाः स्पष्टव्याप्तफुल्लाः स्थूलौ तु जडपीवरौ ॥ १९ ॥ Vaijayantī 6.4.19
- वैजयन्ती क्षुद्रग्रन्थौ स्तंबे प्रकाण्डेप्सु कश्यं मद्यकशार्हयोः । क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ॥ १२ ॥ Vaijayantī 6.5.12
- वैजयन्ती तनुतनुः स्त्री त्वचि देहे च त्रिष्वल्पे विरले कृशे । तमा राहुस्तमोऽघं शुक् स्वरूपेऽधस्तलोऽस्त्रियाम् ॥ ३५ ॥ Vaijayantī 6.5.35
- वैजयन्ती ह्रस्वहृत्प्रिये हृद्धिते हृज्जे ह्रीकौ नकुललज्जितौ । यमेऽल्पे वामने ह्रस्वो हरित् स्त्री दिशि षण् तृणे ॥ १०१ ॥ Vaijayantī 6.5.101
- वैजयन्ती क्षुल्लकद्वौ कनिष्ठकनीयांसौ यून्यत्यल्पेऽनुजेऽपि च । क्षुल्लका नीचनिः स्वाल्पाः कलितो ज्ञातबद्धयोः ॥ ९ ॥ Vaijayantī 7.4.9
- वैजयन्ती तलिनजरठः कठिने जीर्णे तलिनो विरलाल्पयोः । पशुः कालेऽपि निश्शृंगो नरोऽश्मश्रुश्च तूपरौ ॥ १२ ॥ Vaijayantī 7.4.12