All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
Part 1
॥ श्रीगणेशाय नमः ॥
अथ शब्दरत्नसमन्वयकोशः ॥
यस्मिन्निदं यत्त्विदमेव नैत-द्वेद्यं न यस्मिन्विदितेऽन्यदस्ति ।यद्वेद वेदोऽपि विविच्य किञ्चि-त्तद्वाचि मे सन्ततमाविरस्तु ॥
1 · p. 1
इन्द्रवज्रा
अवनं हरिजाय वने यवनेलवनं च दिदेश निदेशमजे ।सहजेऽपि गजेऽप्यगजे युयुजेशमसौ मम सौख्यकरो न परः ॥
2 · p. 1
तोटकम्
यदुपाश्रयणं यदुपाश्रयणंन पृथक् प्रथयत्यपि सातिशयम् ।प्रणिधाय शयं मयि सानुशयंधियमुज्वलयत्वपि देवगुरुः ॥
3 · p. 1
तोटकम्
नाप्तं वारांनिधिममरमुखैर्यत्प्रयासैर्मथित्वाऽपारं प्रौढैरहमहमिकया सारसर्वस्वमस्य ।तच्चेद्वीचीनिचयपरिचयात्सङ्ग्रहीतुं प्रवृत्तोबालो लोलोऽप्ययममितधिया योगयुक्तैर्न बाध्यः ॥
4 · p. 2
metre not recognised
केचिन्नानार्थकाः केचित्कोशास्त्वेकार्थगोचराः ।एकोऽनेकार्थयुक्तोऽयं शब्दरत्नसमन्वयः ॥
5 · p. 2
अनुष्टुप्
केषुचित्त्वादिनियमः कृतोऽन्यत्रान्त्यगोचरः ।कोशेऽस्मिन्द्वयमप्यस्ति कवीनामुपकारकम् ॥
6 · p. 2
अनुष्टुप्
एकद्वित्रिचतुष्पञ्चषड्वर्णानुक्रमान्मया ।स्वरकाद्यादिकाद्यन्तवर्गैः कोशोऽयमीर्यते ॥
7 · p. 2
अनुष्टुप्