All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
डान्तवर्गः · डचतुर्थम्
॥ इति डतृतीयम् ॥
॥ अथ डचतुर्थम् ॥
अपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके ।गलशुण्डी तु रुग्भेदे गृहनीडो वृषायणे ॥
13.3.1 · p. 101
अनुष्टुप्
गौरीपिण्डा रोचनायां गदिता शब्दवेदिभिः ।चक्रवाडस्त्वद्रिभेदे चक्रवाडन्तु मण्डले ॥
13.3.2 · p. 101
अनुष्टुप्
उत्खातकेलिः शृङ्गाद्यैर्वप्रकीडा निगद्यते ।स्यात्तु वातगुडो वात्यावातशोणितयोरपि ॥
13.3.4 · p. 101
अनुष्टुप्
पिच्छलस्फोटिकायां च वामायामपि योषिति ।शब्दविद्भिर्निगदितो हरिमण्डोऽतिमुक्तके ॥
13.3.5 · p. 101
अनुष्टुप्