All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
णान्तवर्गः · णद्वितीयम्
॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये ढान्तवर्गः ॥
॥ अथ णान्तवर्गः ॥
॥ अथ णद्वितीयम् ॥
अर्णो वारिण्यणुर्व्रीहौ स्याल्लेशे परमाणुके ।अणिराणिवदक्षाग्रकीले स्यादश्रिसीमयोः ॥
15.1.1 · p. 103
अनुष्टुप्
उष्णः स्यादातपे ग्रीष्मे दक्षे चोर्णा तु मेषजे ।लोम्नि भ्रूमध्यगावर्त ऋणं देये निगद्यते ॥
15.1.2 · p. 103
अनुष्टुप्
एणो मृगविशेषेऽथ स्यात्कर्णस्तु पृथासुते ।सुवर्णालौ श्रुतौ चापि कर्णी तु स्यन्दने मतः ॥
15.1.3 · p. 103
अनुष्टुप्
कणा जीरककुम्भीरमक्षिकापिप्पलीषु च ।कणस्तु धान्याद्यंशे स्यादतिसूक्ष्मे क्वणो रवे ॥
15.1.4 · p. 104
अनुष्टुप्
क्वाणश्च विकृताक्षे तु काण इत्यभिधीयते ।कीर्णं छन्नेऽपि विक्षिप्ते हिंसितेऽपि च वाच्यवत् ॥
15.1.5 · p. 104
अनुष्टुप्
कुणिस्तुन्नकवृक्षे स्याच्छिन्नहस्ते च कुक्कुरे ।कृष्णस्तु वायसे विष्णौ व्यासे भीमानुजेऽपि च ॥
15.1.6 · p. 104
अनुष्टुप्
मेचके त्वन्यवत्क्लीबे कालायसमरीचयोः ।कृष्णा तु द्रौपदीद्राक्षाकणानीलीनदीष्वपि ॥
15.1.7 · p. 104
अनुष्टुप्
कोणस्तु लगुडेऽस्रौ च मतो वीणादिवादने ।गृहादीनामेकदेशे वाद्यभेदे च गद्यते ॥
15.1.8 · p. 104
अनुष्टुप्
गणः समूहे प्रमथे सङ्ख्यासैन्यप्रभेदयोः ।गीर्णं गिलितमात्रेऽपि स्याद्धृतेऽपि च वाच्यवत् ॥
15.1.9 · p. 104
अनुष्टुप्
गुणोऽप्रधाने रूपादौ सूदे मौर्व्यां वृकोदरे ।सूत्रे सत्त्वादिसन्ध्यादिविद्यादिहरितादिषु ॥
15.1.10 · p. 104
अनुष्टुप्
शौर्यादौ च तथा त्यागधिषणावृत्तिरज्जुषु ।गुणी गुणानामाधारे द्रव्यमात्रेऽपि वाच्यवत् ॥
15.1.11 · p. 104
अनुष्टुप्
गेष्णुर्नटे गायने च गोणः शुष्कफले मतः ।गोणी तु वृषवाहिन्यां घ्राणं घ्रातेऽन्यलिङ्गवत् ॥
15.1.12 · p. 104
अनुष्टुप्
नासिकेन्द्रिययोः क्लीबं घुणः कीटान्तरे मतः ।घृणा जुगुप्साकृपयोर्घृणी रश्मौ प्रकीर्त्यते ॥
15.1.13 · p. 105
अनुष्टुप्
पोत्रितुरङ्गयोर्घोणी नासायां तु मता स्त्रियाम् ।चणस्तु हरिमन्थे स्याच्चीर्णं क्लीबे कृते मतम् ॥
15.1.14 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तु (wrong syllable)
चूर्णी चोक्ता कपर्देऽपि चूर्णो धूलौ निगद्यते ।क्षारभेदे च चूर्णं स्यात्सुवासयुक्तिके तथा ॥
15.1.15 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
जर्णश्चन्द्रे तरुभिदि जिष्णुरर्जुनशक्रयोः ।जित्वरे चाथ जीर्णं तु परिपक्वपुराणयोः ॥
15.1.16 · p. 105
अनुष्टुप्
जूर्णो धान्यविशेषे स्याज्झणिः क्रमुकभिद्यपि ।तर्णः पोते परित्राणे त्राणः स्याद्रक्षितेऽपि च ॥
15.1.17 · p. 105
अनुष्टुप्
त्राणं तु त्रायमाणायां तार्णं तृणमये मतम् ।तीर्णः स्यात्तु समुत्तीर्णे नद्यादौ वाच्यलिङ्गवत् ॥
15.1.18 · p. 105
अनुष्टुप्
तीक्ष्णं सामुद्रलवणे तिग्मात्मत्यागिनोरपि ।तीक्ष्णो यवाग्रजे क्लीबं विषलोहाजिमुष्कके ॥
15.1.19 · p. 105
अनुष्टुप्
तूणी नील्यां निषङ्गे ना तूर्णं तु त्वरितेऽव्ययम् ।तृष्णा तर्षलिप्सयोः स्यात्तृणं तु यवसे मतम् ॥
15.1.20 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ष (wrong syllable)
दीर्णं तु दारिते भीते द्रुणं चापे निगद्यते ।तथा मतोऽलिनि द्रुणो द्रोणीकच्छपयोर्द्रुणी ॥
15.1.21 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्रु (wrong syllable)
देष्णुस्तु दुर्दमे दातर्य्यपि द्रोणः कृपीपतौ ।द्रोणश्च मानभेदेऽपि कृष्णकाके स्थलान्तरे ॥
15.1.22 · p. 106
अनुष्टुप्
स्त्रियां काष्ठाम्बुवाहिन्यां गवादन्यामपीरितः ।धृष्णुर्धृष्टे निगदितो नेष्णु ? र्नेतरि कीर्त्तितः ॥
15.1.23 · p. 106
अनुष्टुप्
पर्णं पक्षे पलाशेऽपि पर्णः स्यात्किंशुकद्रुमे ।पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे ॥
15.1.24 · p. 106
अनुष्टुप्
क्रय्यशाकादिके द्यूतव्यवहारे भृतौ धने ।पार्ष्णिस्तु पादावयवे सैन्यपृष्ठोन्मदस्त्रियोः ॥
15.1.25 · p. 106
अनुष्टुप्
प्राणोऽनिले बले बोले हृन्मरुत्काव्यजीवयोः ।पुंभूम्नि वाऽसुषु प्राणाः पूरिते वाच्यलिङ्गकः ॥
15.1.26 · p. 106
अनुष्टुप्
प्राणी तु चेतने प्रोक्तः करे पाणिर्निगद्यते ।प्राह्णो दिनस्यादिभागे तृतीयांशेऽपराह्णवत् ॥
15.1.27 · p. 106
अनुष्टुप्
पूर्णः शक्ते समग्रे च पूरिते त्वभिधेयवत् ।फणा फटे फणी सर्पे फाणिर्गुडकरम्बयोः ॥
15.1.28 · p. 106
अनुष्टुप्
डिण्डीरे तु भवेत्फेणो बाणः कृष्णकुरण्टके ।बाणः स्याद्गोस्तने दैत्यविशेषे केवलेऽपि च ॥
15.1.29 · p. 106
अनुष्टुप्
सायके मूर्तिभेदे च झिण्ट्यां बाणा निगद्यते ।बाणा च बाणमूलेऽपि नदीभेदे च गद्यते ॥
15.1.30 · p. 106
अनुष्टुप्
भाणो नाटकभेदे स्याद्भूष्णुर्भवितरि स्मृतः ।स्याद्गर्भडिम्भयोर्भ्रूणो मणिर्मुक्ताश्मजातिषु ॥
15.1.31 · p. 106
अनुष्टुप्
माणिः पत्रशिरायां स्यात्स्त्रियां विबुधसम्मता ।मोणः शुष्कफले नक्रमक्षिकाऽहिकरण्डयोः ॥
15.1.32 · p. 107
अनुष्टुप्
रणः कोणे क्वणे पुंसि समरे पुन्नपुंसकम् ।रीणं स्रुते तु रुग्णं स्याद्भग्ने रेणुस्तु पर्पटे ॥
15.1.33 · p. 107
अनुष्टुप्
धूलौ पुष्पपरागे च लोणी स्यादौषधान्तरे ।व्रणः क्षते निगदितो वर्णो विप्रादिषु स्मृतः ॥
15.1.34 · p. 107
अनुष्टुप्
शुक्लादौ च मतो वर्णो यशोगुणकथासु च ।स्तुतौ ना न स्त्रियां रूपभेदाक्षरविलेपने ॥
15.1.35 · p. 107
अनुष्टुप्
ब्रह्मचारिणि वर्णी स्याल्लेखने चित्रकारके ।वाणिर्व्यूतौ निगदिता वाणिर्मूल्ये बलाहके ॥
15.1.36 · p. 107
अनुष्टुप्
वाणी स्याच्छ्रुतिभारत्योर्विष्णुर्व्यापकशार्ङ्गिणोः ।वल्लक्यां विद्युति तथा वीणा निगदिता बुधैः ॥
15.1.37 · p. 107
अनुष्टुप्
वृष्णिर्नृपान्तरे प्रोक्तस्तथा पाखण्डि(चण्ड?)योः ।वृक्णं छिन्ने निगदितं वेणिर्नद्यन्तरे स्त्रियाम् ॥
15.1.38 · p. 107
अनुष्टुप्metre not read in every line
वेणी केशस्य बन्धे स्यान्नद्यां देशान्तरेऽपि च ।देवताडे च वेणुस्तु त्वक्सारे च नृपान्तरे ॥
15.1.39 · p. 107
अनुष्टुप्
शणस्त्वक्सारके प्रोक्तः श्राणं पक्वेऽप्युदीरितम् ।श्राणा तु स्याद्यवाग्वां स्त्री शाणो माषचतुष्टये ॥
15.1.40 · p. 107
अनुष्टुप्
लोहादीनां च निकषे शाणी प्रावरणान्तरे ।शीर्णं क्लिन्ने मतं शिल्पिसंहतौ श्रेणिरुच्यते ॥
15.1.41 · p. 107
अनुष्टुप्
पङ्क्तौ तथा सेकपात्रे प्रवदन्ति मनीषिणः ।समानार्थे च शोणस्तु कृशानौ श्योनकेऽपि च ॥
15.1.42 · p. 108
अनुष्टुप्
लेाहिताश्वे नदे कोकनदच्छाये तु वाच्यवत् ।श्रोणः पङ्गौ स्मृतः श्रोणी कथिताऽवयवान्तरे ॥
15.1.43 · p. 108
अनुष्टुप्metre not read in every lineimpossible sign sequence: लेाहिताश्nearly अनुष्टुप्: pāda 2, syllable 1 कन (syllable split)
स्थाणुर्ध्रुवे हरे कीले स्थिरे स्थाष्णुरपीष्यते ।स्थूणा स्तम्भे लोहमूर्तावङ्कुशे तु शृणिर्मता ॥
15.1.44 · p. 108
अनुष्टुप्
लज्जावति ह्रीण इति गदितः शब्दवेदिभिः ।ह्रीणं ह्रीते वाच्यवत्स्याद् हूणो देशान्तरे मतः ॥
15.1.45 · p. 108
अनुष्टुप्
क्षणः पर्वोत्सवे काले निर्व्यापारस्थितावपि ।क्षीणस्तु ह्रासमापन्ने क्षुणं स्यान्निश्चयार्थके ॥
15.1.46 · p. 108
अनुष्टुप्
क्षोणी धरण्यां निर्दिष्टा पूजायामर्हणे मता ।
15.1.47 · p. 108