कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

पान्तवर्गः · पचतुर्थम्

॥ इति पतृतीयम् ॥

॥ अथ पचतुर्थम् ॥

अभिरूपो बुधे रम्ये प्राप्तरूपेऽपि वाच्यवत् ।अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च ॥
21.4.1 · p. 213
अनुष्टुप्
अपलापः स्मृतः प्रेम्णि तथैवापह्नवे मतः ।उपतापस्त्वरायां स्यादुत्तापगदयोरपि ॥
21.4.2 · p. 213
अनुष्टुप्
उपकूपं निपाने स्याद्गण्डकूपोऽद्रिसन्निधौ ।तथैव गदितो विज्ञैर्जलकूपोऽपगर्त्तके ॥
21.4.3 · p. 213
अनुष्टुप्
जलकूपी पुष्करिण्यां नागपुष्पस्तु चम्पके ।पुन्नागे च तथा नागकेसरे च निगद्यते ॥
21.4.4 · p. 213
अनुष्टुप्
परिवापस्तु पर्याप्तौ जलस्थाने परिच्छदे ।परितापस्तु पुंसि स्याद्दुःखे च नरकान्तरे ॥
21.4.5 · p. 214
अनुष्टुप्
परिकम्पो भये कम्पे प्रलापे प्रेम्णापह्नवे ? ।पिण्डपुष्पमशोके च जवायां च कुशेशये ॥
21.4.6 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 म्णा (wrong syllable)
प्राप्तरूपो बुधे रम्ये बहुरूपो महेश्वरे ।बहुरूपस्तथा विष्णौ धूनके सरटे स्मरे ॥
21.4.7 · p. 214
अनुष्टुप्
मेघपुष्पं तु पिण्डाभ्राम्बुनादेये हरेर्हये ।विप्रलापो विरोधोक्तावपार्थवचनेऽपि च ॥
21.4.8 · p. 214
अनुष्टुप्
वीजपुष्पं दमनके तथा मरुबकेऽपि च ।वृकधूपस्तु सरलद्रवकृत्रिमधूपयोः ॥
21.4.9 · p. 214
अनुष्टुप्
वृषाकपिस्त्वाश्रयाशे शम्भौ दामोदरेऽपि च ।हेमपुष्पं जवाशोकपुष्पयोश्च नपुंसकम् ॥
21.4.10 · p. 214
अनुष्टुप्